2025-01-21 07:35:20 by ambuda-bot
This page has not been fully proofread.
XX
चैतन्यस्योत्पत्तिपक्षीयः अभिव्यक्तिपक्षीयश्च व्याख्याभेदो दर्शितः ।
अत्र सूत्रे केचिद्वृत्तिकारा आचक्षते उत्पद्यते चैतन्यमिति अन्येऽभि-
व्यज्यत इत्याहुः' इति । 'अतिरिक्तचेतननिषेधाच्चेति' चार्वाकवादानु-
वादेन आचार्यवर्येणापि ' परलोकस्याभावात्परलोकिनो ऽभावः ' इति
सूत्रमन्तर्नर्तिमेव । अतिरिक्तचेतननिषेधाच्चेत्यनुवादेन अनुगतभावविरहेण
परलोकानुपपत्तिः अर्थावगत्यतिरिक्तरूपशून्यस्य ज्ञानस्य मूर्छाद्यवस्थासु
कललाद्यवस्थासु च सद्भावानुपपत्तिश्च चेतन सद्भावबाधिका संगृह्य
प्रदर्शिता भवत्याचार्येण ॥
लोकायत गोष्ठीनिष्ठा एव जात्यपलापवादः प्राणवैश्वानरात्मवादः
एकेन्द्रियवादः ज्ञानात्मवादः देहान्तात्मवादश्चेत्येते वादा आचार्येण पर-
मतभङ्गे अनूद्य निरस्ताः ॥
'
यद्यपि लोकायतदर्शने अतिरिक्तचेतननिषेधेन न प्रमाणाभ्युप-
गमसम्भवः ज्ञानावान्तरभेदस्योपपत्तये हि इन्द्रियाभ्युपगम आवश्यकः !
प्रत्यक्षमेकं चार्वाक इति च चार्वाकस्य प्रमाणाभ्युपगमकथा प्रचरति ।
'रूपादिज्ञानसिद्धौ' इति श्लोकस्य व्याख्यावसरे सर्वार्थसिद्धौ च
'त्यज्यतां तर्हि वर्गद्वयमिति चार्वाकोत्थानम् ' इति वदत आचार्यस्य ;
चार्वाकस्यातीन्द्रियाभावेन इन्द्रियाभावादिति भावः' इत्याशय उक्त
आनन्ददायिन्याम् । इन्द्रियाभाववादश्च प्रमाणाभ्युपगमेन विरुध्यते ।
चार्वाकसमयविरुद्धश्च भवतीन्द्रियाभाववादः ; तत्समुदायेविषयेन्द्रिय-
संज्ञा' इति लोकायतसूत्रे इन्द्रियकण्ठोक्तेः ; तथाऽपि शरीरावयव-
गोळकाद्यतिरिक्तमिन्द्रियं नाभ्युपैति चार्वाक इत्यतिरिक्तेन्द्रियाभाव-
कथनोपपत्तिः । तत्सुमादाये इन्द्रियसंज्ञेति सूत्रस्वरसपर्यालोचनया दृश्य-
तत्समुदायातिरिक्तेन्द्रियाभावमभिप्रेत्य सर्वार्थसिद्धितद्व्याख्ययोः प्रवृत्त्युप-
पत्तिश्च सुलभा ॥
: