2025-01-21 07:36:22 by ambuda-bot
This page has not been fully proofread.
सरः ]
त्रिगुणपरीक्षायां तन्मात्रादेरागमिकता
149
सर्वार्थसिद्धिः
अक्षेषु वचनादीनामनुपहतैस्सहकारिमद्भिस्तदवयव विशेषैरेवोपप-
तौ न तावत्कर्मेन्द्रियक्लृप्तिः । रूपादिज्ञानादीनां च तत्तदधिष्ठा-
नभेदैरेव तदनुगुणदशाविशेषितैस्संभवात् । तदतिरिक्तकल्पने ऽ-
पि काणादादिकल्पितन्यायेन स्मृतिविशेषानुगृहीतेन भौतिक-
त्वोपपत्तेराहङ्कारिकेन्द्रियसिद्धिरनागमतो न भवति ॥
कल्पनागौरवभयात्कलाकाष्ठा (ला) दि ' *अकल्पयन् ।
अविशेषात्प्रधानादिकल्पनामप्यपास्यतु ।
आनन्ददायिनी
"
भाव इत्यपरे । इन्द्रियाणामप्यागमैकगम्यत्वमाह — अक्षेष्विति । वचना-
दिक्रिया करणसाध्या क्रियात्वात् भिदि (क्रिया) वदित्यनुमानमपि
तालवाद्यवयवातिरिक्तेन्द्रियसाधकं न संभवतीत्याह — वचनादीनामिति ।
सहकारि-बलोत्साहादिदशा बाल्यादि । अभ्युपगम्याप्याह–तदतिरिक्तेति।
यत्तावद्वाचस्पतिराह — कालश्च वैशेषिकाभिमतोऽनागतादिभेदं प्रवर्त-
यितुं स्वतो नार्हति । ततश्च तपनपरिस्पन्दाद्युपाधिभेदेनानागता-
दिभावं प्रतिपाद्यते । सन्तु त एवोपाधयोऽनागतादिव्यवहारहेतवः
कृतं कालेनेति साङ्ख्याचार्याः' इति । तन्नयायेन प्रधानादिकल्पनाया
अपि युष्याभिर्भेतव्यमित्याह - कल्पनेति । कलाश्च कालश्च — उपाध्य-
धीनः कालः कलाः शुद्धस्तु कालशब्दार्थः । केचित्तु कला-
काष्ठादीति पाठः । तदर्थस्तु कालदिशाविति वदन्ति । प्रसङ्गाच्छैवमत-
भावप्रकाशः
'अकल्पयन्निति 'दिक्कालावाकाशादिभ्य' इति साङ्ख्यप्रवचन-
सूत्रभाष्ये (२१२) तत्वकौमुद्यां च (३३ श्लो) स्पष्टमेतत् ।