2025-01-21 07:36:22 by ambuda-bot
This page has not been fully proofread.
148
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
सर्वार्थसिद्धिः
[जडद्रव्य
कूर्मावयवदृष्टान्तश्चात्र मन्दः । तत्र ह्याकुञ्चनप्रसारणाभ्यां अव-
यवान्तरावृतानावृतत्वसिद्ध्या भवत्यव्यक्तव्यक्तावस्थाभेदः न
तूपादानोपादेयभावात् । न च तत्र कस्यचिदवयवनाशोत्प-
त्तिव्यवहारः । अतो न कथञ्चिदप्यनुमानादव्यक्तादिसिद्धिः ।
त्रिगुणपरीक्षायां प्रकृत्याद्यनुमानानरासः प्रकृत्यादेरागमिकत्वंच
'आगमेन विना सिद्धिस्तन्मात्राणां च दुर्वचा ।
उद्भवानुद्भवाद्यैस्तु लोके सूक्ष्मादिकल्पना ॥ '
आनन्ददायिनी
चाविर्भवन्ति ; न तु कूर्मस्तदङ्गानि वोत्पद्यन्ते ध्वंसन्ते चेति' तदूषयति
कूर्मावयवेति तत्र व्यक्ताव्यक्तावस्थाभेदो नोपादानोपादेयभावात् किं
त्वावृतत्वानावृतत्वाभ्यां । ततश्च दृष्टान्तदाष्टन्तिकयोर्वैषम्यमिति भावः ।
नचेति । उपादानोपादेयस्थले नाशोत्पत्त्यव्यवहारादिति भावः ।
त्रिगुणपरीक्षायां प्रकृत्याद्यनुमाननिरासः प्रकृत्यादेरागमिकत्वं च
-
पूर्वं महदादीनां स्वरूपं किमागमेनानुमानेन वा सिद्धमिति विकल्प्य
स्वरूपासिद्धिरुक्ता इदानीं तन्मात्राणां महदादिवद्वृत्तिभेदरूप -
लिङ्गाभासोऽपि नास्तीत्याह — आगमेनेति । ननु तन्मात्राणां यदि
सूक्ष्मत्वेनाप्रत्यक्षत्वं तथा सति लौकिकानां तद्ग्रहणाभावेन क्वचिदपि
सूक्ष्मादिव्यवहारो न स्यादित्यत्राह—उद्भवानुद्भवाद्यैस्त्विति ।
उद्भवः स्फुटतरप्रकाशः । अनुद्भवस्तदभावः । न्यूनपरिमाणाधिक-
परिमाणादिकमादिशब्दार्थ इत्यन्ये । ननुद्भूतशब्दादिकं भूतं अनुद्भूत-
शब्दादिकं तन्मात्रं उद्भवोऽनुद्भवश्च लोकसिद्धावित्यत्राह —— उद्भवेति
सिध्यतां नामोद्भवानुद्भवौ लोके; तथाऽपि एकस्मिन्नेव तत्वे
तौ सूक्ष्मस्थूलविभागं कुरुतः न तु तत्वान्तरत्वमापादयेतामिति