This page has not been fully proofread.

सर: ] त्रिगुणपरीक्षायां प्रकृत्यनुमाननिरासः प्रकृत्यादेरागमिकत्वं च 147
 
सर्वार्थसिद्धिः
 
रिमाणबहुकार्योत्पत्तौ प्रतिकार्य कारणस्य कृत्स्नैकदेशविनि-
योगविकल्पे कार्यान्तराणामनुत्पत्तिर्वा कारणस्य सावयवत्वं वा
स्यादिति चर्चा स्यात् । श्रौते तूपादाने 'श्रुतेस्तु शब्दमूल -
त्वात्' इति समाधानं सूत्रितम् । 'अपिच क्षीरदधिरुचक-

स्वस्तिकादिन्यायेन स्वस्यैव पूर्वावस्थाविशेषवत स्स्वोपादानत्वे
सिद्धे किमन्यत्र कुत्रचिदविभागादिगवेषणया ? । घटादयोऽपि
मृत्पिण्डादिषु तत्तदंशैरेवोपादीयन्ते न तु पिण्डादिभिः ।
आनन्ददायिनी
 
वोपपादयति । प्रतिकार्यमिति । कृत्स्नविनियोगपक्षे कार्यान्तराणाम-
नुत्पत्तिः एकदेशविनियोगपक्षे सावयवत्वमित्यन्वयः । कार्यान्तराणा-
मनुत्पत्तिरित्यत्र स्वल्पपरिमाणानामप्यनुत्पत्तिर्बोध्या । पक्षद्वयानुपपत्तौ
प्रकृत्युपादानत्वं वा तद्विशिष्टब्रह्मोपादानत्वं वा कथं युष्माभिरङ्गी -
क्रियते इत्यत्राह - श्रौते त्विति । श्रुतान्यथानुपपत्त्या यागादावदृष्टक-
ल्पनावदत्राप्यव्यापिपरिणामहेतुसंयोगकल्पनासम्भवादित्यर्थः । अपिचेति
ननु महदादेरेव सुक्ष्मरूपावस्थाङ्गीकारे सैव प्रकृतिरिति चेन्न ;
तन्मते महदादीनां सूक्ष्मरूपेण स्थित्यङ्गीकारेण प्रकृतेस्ततो
भिन्नत्वात् । ननु घटादयो हि स्वभिन्नमृत्पिण्डादुपादीयमाना-
स्ततो विभक्ता अविभक्ताश्चेति व्याप्तिरस्तीति चेत्तत्राह — घटादयोऽपीति
एवं च तत्तदंश एवोपादानं न तु ततो विभक्तांश इति भावः ।
अत्र यदुक्तं वाचस्पतिना विभागाविभागनिदर्शनतया-
यथा हि
कूर्मस्याङ्गानि कूर्मशरीरे निविशमानानि तिरो भवन्ति निस्सरन्ति
 
भावप्रकाशः
 
णामेन कार्यता लक्षणपारणामेन कारणता चेत्यनुचितमित्याह '*अपिचेति।
 
10*