2025-01-21 07:36:22 by ambuda-bot
This page has not been fully proofread.
सरः]
त्रिगुणपरीक्षायां प्रकृत्यनुमाननिरासः
सर्वार्थसिद्धिः
145
भग्नः । त्वयापि संहतैस्सत्वादिभिर्जगदारम्भोक्तेश्व । * ' यत्र
कार्याणां विभागाविभागदृष्टिः न तत्र सर्वत्रोपादानत्वं निमित्ते
पि क्वचित्तद्दृष्टेः । अरणेरिवारणेयस्य । न हि काष्ठे पार्थि-
वांशो वह्नेरुपादानं नच वह्नथंशो धूमस्य । एवं सति
नाव्यक्तस्यैव सिद्धिः ; विश्वनिमित्तस्यापि कस्यचिदेव-
मनुमातुं शक्यत्वात् । तस्य च विजातीयस्यापि संभवात् ।
आनन्ददायिनी
जगत एकप्रकृत्युपादानकत्वसाधने स्वमते बाधो विशेषविरुद्धश्चेत्याह-
त्वयाऽपीति । पूर्वोक्तानुमाने व्यभिचारमप्याह – न तत्र सर्वत्रोपादान-
त्वमिति—उपदानत्वनियमो नेत्यर्थः । आरणेयस्य — अरणिजन्यस्य ।
शुभ्रादित्वादपत्यार्थे ढक्प्रत्ययः । व्यभिचारस्थलान्तरमप्याह—न च
वह्नयंश इति । अव्यक्तस्य - प्रकृतेः । उभयथा विभागाविभागदर्शनान्नि-
मित्तोपादानयोरुभयोरप्यनुमानप्रसङ्गेन तत्वसंख्याव्याघातः; तत्परि-
हारार्थमन्यतरानुमाने निमित्तमात्रस्यैव सिद्धिप्रसङ्गेनार्थान्तरमित्याह-
विश्वनिमित्तस्येति । नन्वस्त्वेकं निमित्तं सैव प्रकृतिरित्यत्राह -
विजातीयस्यापीति । कार्यस्य सत्वाद्यात्मकतया तदात्मिका प्रकृतिस्त्वया
भावप्रकाशः
विभागाविभागयोःससंबन्धिकत्वेन यद्यस्माद्विभक्तं तत्तदुपादानकमिति
व्याप्तिरङ्गीकरणीया तथा सत्यनैकान्त्यमित्याह -* यत्रेत्यादि ।
वंशीधरोक्तरीतिमपि दूषयति--* एवं सति नाव्यक्तस्येत्यादिना ।
निमित्तकारणमादायार्थान्तरेण वंशीधरोक्तमयुक्तं । अभिव्यक्तिप्रकारश्च
निरसिष्यते । अव्यक्तोपादानकारणकत्वसाधनेऽपि हेतुरप्रयोजक इति
SARVARTHA.
10