2025-01-21 07:36:22 by ambuda-bot
This page has not been fully proofread.
144
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
सर्वार्थसिद्धिः
[ जडद्रव्य
*' किंच कार्याणां सतां क्वचित्कारणे विभागाविभागौ नियताविति
कृत्वा विचित्रस्य कार्यवर्गस्य विभागाविभागस्थानतया प्रधानं
सिषाधयिषितव्यं ; न त्वेवं नियमः । यथा मृदादिषु घटादीना-
मेतौ दृष्टौ न तथा तन्त्वादिषु पटादीनां । न हि तन्त्वेकदेशात्मकः
पटः ; येन घटादिन्यायस्स्यात् । एकस्मादनेकोत्पत्तिनियमश्च
* अनेन
आनन्ददायिनी
किंचेति । यथा मृत्पिण्डाद्विभज्य तदेकदेशो घटः क्रियते । पुनस्त-
दुपम (दैन) देने मृत्पिण्ड एव निविशते न तथा पटस्तन्तोरेकस्मा-
द्विभज्योत्पद्यते । न च स्वोपम (दैन ) देने निविशते इत्यर्थः ।
तत्र हेतुर्नहीति । तन्तूनामेव तदेकदेशत्वादिति भावः । अनेनेति-
पटनिदर्शनेनेत्यर्थः । प्रत्येकं पटानामनेकतन्त्वारब्धत्वादिति भावः ।
भावप्रकाशः
पक्षे साध्यहेत्वोरनङ्गीकारेऽप्यभिमाननिश्चयाद्यमुपपद्यते। महदादिसिद्धावपि
तत्राभिव्यक्तकार्यत्वानभिव्यक्तकार्यत्वयोर्व्यक्तिसिद्धेः प्राङ्नैव निश्चयः ।
हेत्वन्तरेण तत्साधनेऽपि तत एवाव्यक्तं निश्चितमिति कथमनेन
साध्यसिद्धिः ? महदादिसिद्धौ चाश्रयासिद्धिरिति भावः । * किश्चेत्या-
दि । अयमाशयः-विभागाविभागव्यवहारो त्यन्तभिन्नयोरेव लोके दृश्यते
इति सांख्यमते कार्यकारणयोरत्यन्तभोदानङ्गीकारेण यथाश्रुते मूलमयुक्तं ;
समुदायादेकदेशस्य पृथग्भावादिदशायां विभागादिव्यवहारस्य मुख्यस्या-
ङ्गीकारेऽपि तन्तुपटादिषु तदसम्भवेनाव्यक्तकारणकत्वसाधनं न सम्भवति ।
सांख्यानां सत्कार्यवादसाधनासंभवसूचनायैवारम्भणाधिकरणे ' पटवच्च '
इति सूत्रमिति । * अनेन - तन्तुपटस्थलेऽसम्भवेन ।