This page has not been fully proofread.

सरः]
 
त्रिगुणपरीक्षायां प्रकृत्यनुमाननिरासः
 
143
 
सर्वार्थसिद्धिः
 
*'महदादिपक्षसिद्ध्यसिद्धिविकल्पेन निरस्तः ।
 
आनन्ददायिनी
 
सिद्ध्यसिद्धिविकल्पेनेति - सिद्धिः श्रुत्यैवेति तयैव प्रकृतिसिद्धेस्सिद्ध-
साधनं असिद्धावाश्रयासिद्धिरिति भावः । व्याप्यत्वासिद्धिमप्याह -
 
भावप्रकाशः
 
मविभागः इति । अत्र वंशीधरः; ' अयं प्रघट्टकार्थः — कारणा-
त्कार्यस्याभिव्यक्तिः सा कारणकार्यविभागः । कार्यस्य लक्षणाख्यः
परिणामः । अतीतलक्षणः तिरोभावापरपर्यायो विभागः । अव्यक्तत्वं
च तत्र कारणस्य स्वस्वकार्यरूपधर्मपरिणामान्यपरिणामवत्त्वं । भवति
घटोत्पत्तेः प्राक् तन्नाशानन्तरं च घटस्वरूपधर्मपरिणामान्यः पिण्ड-
खर्परादिपरिणामस्तद्वत्त्वं मृदादेरिति ' ' इत्थं च विवादाध्यासिता भेदा
अव्यक्तकारणका अभिव्यक्तकार्यत्वात्कूर्माङ्गादिवत् घटादिवद्वा । न च
भेदशब्दस्य महदादिभूतान्तपरत्वे भूतानां प्रसिद्धत्वेऽपि महत्तत्वा-
हङ्कारपञ्चतन्मात्राणामप्रसिद्ध्याऽप्रसिद्धिरिति वाच्यं ; प्रकृतेर्महानित्यादौ
तेषां साधनीयत्वात् । तथा च महत्तत्वपर्यन्तपक्षे हेतूनां साध्यं सिध्यत्
परमाव्यक्तं मूलकारणं सिद्ध्यतीत्यभिप्रायः । एवमविभागादनभिव्य-
क्तकार्यत्वापरपर्यायात्' इति चाह । * 'महदादिसिद्ध्यसिद्धीत्यादि-श्रुत्या
महदादेस्सिद्धैौ तत एवाव्यक्तसिद्धिः । प्रकृतेर्महानित्यादौ तन्मात्रे -
न्द्रियाण्यभिमानद्रव्योपादानकानि अभिमानकार्यद्रव्यत्वात् । अहङ्कार-
द्रव्यं निश्चयवृत्तिमद्दव्योपादानकं निश्चयकार्यद्रव्यत्वात् इत्याद्य-
नुमानेन महदादिसाधनं न सम्भवति कारणद्रव्येषु रूपाद्यभावेऽपि
न्यूनाधिकभावेन कारणद्रव्यसंयोगात्तन्मात्रारूपत्वं यथा तथाऽत्रापि