2025-01-21 07:36:19 by ambuda-bot
This page has not been fully proofread.
142
सव्याख्यसर्वार्थासिद्धिसहिततत्वमुक्ताकलापे
[जडद्रव्य
सर्वार्थसिद्धिः
* कारणकार्यविभागादविभागादिति हेतुश्च
आनन्ददायिनी
भेदानां परिमाणादित्यु (त्याद्यु) क्तहेतुपञ्चकमध्ये त्रयो हेतवो
निरस्ताः । परिशिष्टं हेतुद्वयं निराकर्तुमनुवदति । कारणकार्यवि-
भागादिति ॥
सत्
भावप्रकाशः
*'कारणकार्यविभागादित्यादि - अत्र तत्वकौमुद्यां वाचस्पतिः कारणे
कार्यमिति स्थितं । तथाच यथा कूर्मशरीरे सन्त्येवाङ्गानि निस्स-
रन्ति विभज्यन्ते इदं कूर्मशरीरं एतान्येतस्याङ्गानीति एवं निवि-
शमानानि तस्मिन् अव्यक्तीभवन्ति एवं कारणान्मृत्पिण्डाद्धेम-
पिण्डाद्वा घटमकुटादीनि सन्त्येवाविर्भवन्ति विभज्यन्ते सन्त्येव
पृथिव्यादीनि कारणात्तन्मात्रादाविर्भवन्ति विभज्यन्ते सन्त्येव च
तन्मात्राण्यङ्कारात्कारणात् सन्नेवाहङ्कारः कारणान्महतः सन्नेव च
महान् परमाव्यक्तात् । सोऽयं कारणात्परमाव्य क्तात् साक्षात्पारम्पर्येणा-
न्वितस्य विश्वस्य कार्यस्य विभागः । प्रतिसर्गे तु मृत्पिण्डं सुव-
र्णपिण्डं वा घटमकुटादयो विशन्तोऽव्यक्तीभवन्ति ।
मेवानभिव्यक्तं कार्यमपेक्ष्याव्यक्तं भवति । एवं पृथिव्यादयस्तन्मा-
त्राणि विशन्तः स्वापेक्षया तन्मात्राण्यव्यक्तयन्ति । एवं तन्मात्रा-
ण्यहङ्कारं विशन्त्यहङ्कारमव्यक्तयन्ति । एवमहङ्कारो महान्तं विशन् महा-
न्तमव्यक्तयति । महान् प्रकृतिं स्वकारणं विशन् प्रकृतिमव्यक्तयति ।
प्रकृतेस्तु न क्वचिन्निवेश इति सा सर्वकार्याणामव्यक्तमेव । सोऽय-
तत्कारणरूप-