This page has not been fully proofread.

सरः]
 
त्रिगुणपरीक्षायां प्रकृत्यनुमाननिरासः
 
141
 
सर्वार्थसिद्धिः
 
पूर्व शरीराकृष्टसूक्ष्मावयवसंघातमात्रेणापि ( तत्वार्थः) गतार्थः ।
'सूक्ष्मं प्रमाणतश्च तथोपलब्धेः' इति सूत्रमपि तावन्मात्रविषयं ।
पुर्यष्टकशरीरोक्तिश्च न शरीरान्तर्वर्तिसूक्ष्मदेहसद्भावपरा ।
 
आनन्ददायिनी
 
इत्यागमस्त्वित्यर्थः । नन्वत्र शरीरपदाभावात्कथं शङ्केति चेन्न । पुरुष-
शब्दस्य पुरि शेत इति व्युत्पत्त्या लिङ्गशररिपरत्वात् । तस्यापि स्थूल-
शरीररूपपुरस्स्थत्वात् । तत्वार्थ इति अर्थवानेवेत्यर्थः । गतार्थ इति
पाठस्तु सुगमः । ननु सूक्ष्मशरीरनिराकरणं सूत्रकारविरुद्धमित्यत्राह —
सूक्ष्ममिति । चन्द्रसंवादादिकं तु तादात्विकशरीरान्तरमादाय नेयं सूक्ष्म-
शरीरस्यायोग्यत्वादिति भावः ।
 
ननु
 
बुद्धीन्द्रियाणि खलु पञ्च तथापराणि
 
कर्मेन्द्रियाणि मनआदिचतुष्टयं च ।
 
प्राणादि पञ्चकमथो वियदादिपञ्च
 
कामाश्च कर्म च तमः पुनरष्टमी पूः ॥
 
इति । तथा च—
 
शब्दस्स्पर्शश्च रूपं च रसो गन्धश्च पञ्चकम् ।
बुद्धिर्मनश्चाहङ्कारः पुर्यष्टकमुदाहृतम् ॥
 
इति कालोत्तरसंहितादिवचनोपबृंहितया 'देवानां पूरयोध्या । अष्टा-
चक्रा नवद्वारा ' इति श्रुत्या लिङ्गशरीर सिद्धिरिति चेत्तत्राह—
पुर्यष्टकेति । स्थूलशरीर एव रूपकमात्रत्वात्तस्याश्श्रुतेरिति भावः ।