2025-01-21 07:36:19 by ambuda-bot
This page has not been fully proofread.
140
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[ जडद्रव्य
सर्वार्थसिद्धिः
* 'ननु स्थूलदेहद्वयान्तराळवर्ती
क्षेत्रज्ञस्तात्का-
लिकदेहवान् क्षेत्रज्ञत्वात् यस्तथा स तथा यथा कालान्त-
रवर्तीत्यनुमी (यते) येत । मैवं ; विपक्षे बाधकाभावात् । गत्यु-
पदेशानुपपत्तेः परिहृतत्वात् । अशरीरत्वे मुक्तत्वप्रसङ्ग इति चेन्न ।
प्रळयवदविरोधात् । तत्रापि सूक्ष्माऽचिद्विशिष्ट एव पुरुष इति चेन्न,
अत्रापि तावन्मात्रसाधने सिद्धसाधनात् । आगमस्तु गत्यवस्थायां
आनन्ददायिनी
शङ्कते—–नन्विति शरीरवत्त्वे साध्ये सिद्धसाधनमिति तात्कालिकेति ।
विपक्षबाधमाशङ्कते अशरीरत्व इति । प्रळयवदिति । त्वयापि महा-
प्रलये लिङ्गशरीरनाशस्याङ्गीकारादिति भावः ।
तस्मादपिचासिद्धं परोक्षमाप्तागमात्सिद्धम् ।
इति न्यायेन तृतीयमाशङ्कते । आगमस्त्विति - ' वेत्थ कतम्यामाहुता-
वापः पुरुषवचसो भवन्तीति प्रश्ने; इति तु पञ्चम्यामाहुतावापः
पुरुषवचसो भवन्तीति स यथा पेशसा मात्रामुपाददानोऽन्यन्नवतरं
कल्याणतरं कल्याणतमं रूपं कुरुते ।
अङ्गुष्ठमात्रं पुरुषं निश्वकर्ष यमो बलात् । '
भावप्रकाशः
सतामभिप्रेत्य अनुमानान्तरे तत्पर्यवसानमाकलय्य शङ्कते । नन्वित्या-
दिना । अत्र -
कल्पादौ भूतसूक्ष्मप्रभृतिभिरुदितं वर्ष्म कल्पान्तनाश्यं
प्रत्येकं प्राणिभेदे नियतमनियतस्थूल देहानुयायि ।
लिङ्गाख्यं भस्त्रिकान्तःपरुवकवदवस्थायि सांख्यैः प्रगीतं
इत्यधिकरणसारावळीसूक्तिरनुसन्धेया ।