2025-01-21 07:35:20 by ambuda-bot
This page has not been fully proofread.
xix
शास्त्राधिकारं च तदयिमनुवदता लोकायतपदव्युत्पत्तिः पुष्कलार्थैवोपपा-
दिता भवति । लोकायतदर्शनं च बृहस्पतेस्सूत्रनिबन्धात्मकं चार्वाक -
नाम्ना भाष्यप्रणयनपूर्वकं प्रचारितमिति तत्कृत एव च चार्वाकमतमिति
प्रथाविशेषः । चार्वाकस्य भाष्यप्रणेतृत्वं च परमतभङ्गे उक्तमाचार्य-
वर्येण (५८) ।
चार्वाकेतिहासश्च महाराष्ट्र ज्ञानकोशनाम्नि भाषापदकोशे एवं
दर्शितः - ' अवन्ती देशान्तर्गतक्षिप्राचामलानद्योस्संगमप्रदेशे शङ्खोद्धार-
नाम्नि क्षेत्रे कल्यादि युधिष्ठिरादि वा ६६०-६६१ तमे प्रभवसंवत्सरे
उत्तरायणे वैशाखशुद्धपौर्णमास्यां रविवारे मध्याह्नसमये चार्वाकनाम्नः
नास्तिकतत्वज्ञस्य जन्मेति युधिष्ठिर ७२५ तमे श्रीमुखसंवत्सरे भाद्रपद-
शुद्धद्वादशी सोमवासरे पुष्करक्षेत्रस्थयज्ञनामकगिरौ दक्षिणायने चार्वा
कस्य मरणम्' इति । जैनग्रन्थान्ते ग्रन्थनाम किमप्यनिर्दिश्य चरितमेत
दुक्तं कोशकारेण संगृहीतमिति च आकरनिर्देशोऽपि कृत इव ।
1
संपूर्णो लोकायतसूत्र निबन्धः केन वोपलब्ध इति न जानीमः ।
द्वित्राण्येव परं सूत्राणि प्राय उदाहरन्तो व्याख्यानिबन्धकाराः देहात्म-
वाददूषणे विजृम्भन्ते ॥
!!
न्यायदर्शने च गौतमः ' अहेतुतो भावोत्पत्तिः कण्टकतैक्ष्ण्या-
दिवत्' 'पद्मसंमीलनविकारवत्तद्विकारः' इति सूत्राभ्यां कार्यकारणभा-
वाद्यपलापरूपस्तर्कः चार्वाकीय एवानूदितः ॥
— पृथिव्यप्तेजो वायुरिति तत्वानि ' ' तेभ्यश्चैतन्यं 'किण्वादिभ्यो
मदशक्तिवत्' इति त्रीण्येव सूत्राणि प्रायो दर्शनव्याख्यानिबन्धेषूप-
लभ्येरन् । तत्वसंग्रहपञ्चिकायां कमलशीलेन ' तत्समुदाये विषयेन्द्रिय-
संज्ञा' ' परलोकस्याभावात्परलोकिनोऽभावः ' 'कायादेव ततो ज्ञानम् '
'
इति त्रीणि चान्यान्यपि सूत्राणि दर्शितानि ; तेभ्यश्चैतन्यमिति सूत्रे
b*