This page has not been fully proofread.

सर:]
 
त्रिगुणपरीक्षायां प्रकृत्यनुमाननिरासः
 
139
 
सर्वार्थसिद्धिः
 
कैश्चिदप्यनुफलम्भात्, विभोरात्मनस्स्वर्गादिगत्युपदेशान्यथानु-
पपत्त्या तत्क्लप्तिरिति चेन्न, तर क्लृप्तावपि युष्मन्मते तद्गतेरात्मन्यु-
पचारात् । ततो वरमदृष्टशक्तया तत्रतत्र देहोत्पत्तिमात्रेण तत्त-
देशगत्युपचारः ।
 
आनन्ददायिनी
 
विभोोरिति स्वतः स्पन्दात्मकगतेरसम्भवादिति भावः । तत्तदेशगत्युपचार
इति——यद्यपि लिङ्गशरीरे साक्षाद्गतिरस्ति तथाप्यात्मनो न सेति तत्र
गत्युपदेश औपचारिक एव । तथा च देशान्तरशरीरोत्पत्त्याप्यौपचा-
रिकव्यवहारसम्भवान्नोक्तं गतिमत्त्वं लिङ्गमिति भावः । अनुमानान्तरं
भावप्रकाश:
 
चित्रं यथाऽऽश्रयमृते स्थाण्वादिभ्यो विना यथा च्छाया ।
तद्वद्विना विशेषर्न तिष्ठति निराश्रयं लिङ्गम् ॥
 
इति कारिका । — चित्रमिति-लिङ्गनात् ज्ञापनाद्बुद्ध्यादयो लिङ्गं ।
तदनाश्रयं न तिष्ठति । जन्ममरणान्तराळे बुद्ध्यादयः प्रत्युत्पन्नशरीरा-
श्रिताः प्रत्युत्पन्नपञ्चतन्मात्रवत्त्वे सति बुद्धयादित्वात् दृश्यमानश-
रीरवृत्तिबुद्ध्यादिवत् । विना विशेषैरिति — सूक्ष्मैश्शरीरैरित्यर्थः ॥
ततस्सत्यवतः कायात्पाशबद्धं वशं गतम् ।
 
अङ्गुष्ठमात्रं पुरुषं निश्चकर्ष बलाद्यमः ॥ भारते ।व।२९६श्लो—
इत्यङ्गुष्ठमात्रत्वेन सूक्ष्मशरीरवत्त्वमुपलक्षयति । आत्मनो निष्कर्षास -
म्भवात् । ' सूक्ष्ममेव शरीरं पुरुषः; तदपि पुरि स्थूलशरीरे शेते '
इति तत्वकौमुदी । प्रधानवत्प्रलयावस्थायिशरीरसिद्ध्या अर्थान्तरवा -
रणाय प्रत्युत्पन्नेति—सर्गं प्रत्युत्पन्नेत्यर्थः । न च दृष्टान्तासिद्धिः; ।
दृश्यमानेत्यादेरुत्पन्नमात्रपरत्वात् ' इति तद्विभाकरः ।
तत्र विपक्षे
बाधकागमे पुरुषशब्दस्य प्रयोगभूयस्त्वेन शरीरिणि जीव एव स्वर-