This page has not been fully proofread.

138
 
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
 
[जडद्रव्य
 
सर्वार्थसिद्धिः
 
न ह्यत्र लिङ्गशब्दोक्तसूक्ष्मशरीरसद्भावेप्रमाणमस्ति स्थूलवत्प्रत्यक्षं,
 
आनन्ददायिनी
 
इत्यादिशब्दार्थः । अस्यार्थः - पूर्वं मातापितृजन्यशरीरस्य भस्म-
 
कीटान्तत्वेन निवृत्तिः सूक्ष्मशरीरस्य नैयत्यं चोक्तं-
 
सूक्ष्मास्तेषां नियता मातापितृजा निवर्तन्ते ।
 
-
 
इति । पूर्वोत्पन्नं प्रकृतस्थूलभूतोत्पत्तेः पूर्वं प्रकृतित उत्पन्नं
प्रतिपुरुषमेकैकमित्यर्थः । अ (व्यक्तं ) सक्तं - अव्याहतं शिलास्वप्यनुप्र-
वेशसमर्थमिति यावत् । नियतं - आच महासर्गादाच प्रळयादवतिष्ठते ।
महदादिसूक्ष्मपर्यन्तं–महदहङ्कारैकादशेन्द्रियपञ्चतन्मात्रपर्यन्तं तेषां समु-
दाय इत्यर्थः । नन्वेतदेवास्तु किं पाट्कौशिकशरीरेणेत्यत आह-
संसरतीति । उपात्तं षाट्कौशिकं शरीरं जहाति हायहायं चोपादत्ते;
तस्मान्निरुपभोगं—यतः पाट्कौशिकं विना सूक्ष्मशरीरं निरुपभोगं
तस्मात्संसरति । ननु धर्माधर्मनिमित्तः संसारः; न च सूक्ष्मशरीर-
स्यास्ति तद्योगः; तत्कथं संसरतीत्यत्राह । भावैरधिवासितं — धर्मा-
धर्मज्ञानाज्ञानैवराग्यावैराग्यैश्वानैश्वर्याणि भावाः । तदन्विता बुद्धिस्त-
दन्वितं सूक्ष्मशरीरं तदपि भावैरधिवासितं ; यथा सुरभिचम्पकसम्प-
र्काद्वस्त्रं तदामोदवासितं भवति । तस्मात्संसरति । तस्मात्प्रधानमिव
महाप्रळये तच्छरीरं न तिष्ठतीत्यत्राह — लिङ्गमिति । लयं गच्छतीति
लिङ्गं हेतु(मत्त्वा)त्वादति भावः । किमत्र सूक्ष्मशरीरसद्भावे प्रमाणं प्रत्य-
क्षमनुमानमागमो वेति विकल्पमभिप्रेत्य प्रथमं दूषयति । न हीति
स्थूलवत् —— स्थूलशरीर इव । सप्तम्यर्थे वतिः । द्वितीयमाशङ्कते -