2025-01-21 07:36:19 by ambuda-bot
This page has not been fully proofread.
सरः]
त्रिगुणपरीक्षायां प्रकृत्यनुमाननिरासः
137
सर्वार्थसिद्धिः
सूक्ष्मावस्थात्स्वस्मादेव जगदुत्पत्स्यत इति; तथाऽपि संप्रति-
पन्नावधिस्तत्वपङ्क्तिरस्तु । यद्वा तदपि सूक्ष्मं सूक्ष्मान्तरादिति
कथं तत्वेयत्ता १ । एतेन सांख्यानां सूक्ष्मशरीरक्कृप्तिश्व
निरस्ता । यदाहुः — पूर्वोत्पन्नम (व्यक्त) सक्तामित्यादिना, तन्न,
आनन्ददायिनी
गणनाप्रयोजकत्वाभावादिति भावः । संप्रतिपन्नावधिरिति । महत्तत्वा-
वधिरित्यर्थः । यद्यप्यहङ्कारादिकारणस्य महतस्सूक्ष्मत्वमस्ति ( तथापि )
तदपि सूक्ष्मान्तरसापेक्षं । तस्य च सूक्ष्मावस्थस्य न तत्रान्तर्भावः
इति यद्युच्येत तदा तदप्युपादानत्वात्सूक्ष्मान्तरसापेक्षमिति कथं
तत्वपङ्कीयत्तेत्याह –यद्वेति — यदत्यर्थः । केचित्तु—कथमव्यक्त-
सिद्धिरिति—शक्तिसिद्धावपि नाव्यक्तसिद्धिरित्यर्थः । ननु शक्तित
एव कार्यं प्रवर्तते । सा चाव्यक्तमेव । तिलेषु तैलमिव । यथा च
तत्सूक्ष्मावस्थं तथाचाव्यक्तसिद्धिरिति शङ्कते — नन्विति । यदिति ।
तथाच तैलाश्रयतिलवदव्यक्ताश्रयात्मकशक्तयाश्रयोऽप्यङ्गीकार्य इति
सिद्धान्तविरोध इत्यर्थः । विषम इति । तिलस्येव शक्तयाधारस्या
(त्रा) नभ्युपगमादिति भावः । तर्हि तदुदाहरणं त्यजत इत्याह-
नोदाहरणमिति । तथापि संप्रतिपन्नावधिरिति । सूक्ष्मभूतमहत्तत्वा-
वधिरित्यर्थः । यद्वा-सूक्ष्मस्यापि सूक्ष्मान्तरसापेक्षत्वात्तत्वेयत्तासिद्धिर्न
स्यादिति दूषणं तदवस्थमेवेत्याह—यद्वेति । अपिचेत्यर्थ
इत्याहुः ।
ननु कारणेषु (कारणं) सूक्ष्मं कार्यं शक्तिरिति शरीरे सूक्ष्मशरीरवद्वर्तत
इत्यत्राह—एतेनेति यथाहुरिति । सांख्या इति शेषः ।
नियतं महदादिसुक्ष्मपर्यन्तम्
संसरति निरुपभोगं भावैरार्धवासितं लिङ्गम् ।