This page has not been fully proofread.

136
 
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
 
[ जडद्रव्य
 
सर्वार्थसिद्धिः
 
*' मैवं ; यदि तैलाश्रयतिलवदव्यक्ता वास्थाश्रयस्वीकारः
तदा पूर्ववत्स्वेष्टतत्वसंख्याविरोधः । अथ न ; विषमस्तिल-
दृष्टान्तः । नोदाहरणमादर्तव्यं; क्षीरादधिवत्
 
आनन्ददायिनी
 
मैवमिति । सत्वाद्यात्मकस्याव्यक्तस्यापि नानात्वान्नैकोपादानसिद्धिरिति
भावः । किंच तैलाश्रयस्य तिलस्यापि शक्तयाश्रयस्य कार्यत्वात्तद्वदेव
महदादिशक्त्याश्रयस्यापि कार्यत्वनियमात्तस्य कारणशक्तितः प्रवृत्त्यनङ्गी
कारे च तस्य कारणस्यापि द्रव्यान्तरत्वात्तत्वसख्याविरोध इत्याह- यदि
तैलाश्रयेति । अव्यक्तावस्थस्याश्रय इत्यर्थः । अथ नेति । अव्यक्ता-
वस्थस्याश्रयो यदि न स्वीक्रियत इत्यर्थः । विषम इति तिलस्याव्य-
क्तावस्थाश्रयस्यैक ( व कारण ) त्वादिति भावः । यद्यप्ययमुत्कर्ष-
समभेदः व्यञ्जनवत्त्वापादनवत् तथाऽपि नियतस्य सहचारस्य
सत्त्वे तादृशो नेति भावः । समाधानमाशङ्कते —नोदाहरणमिति ।
तथा च सूक्ष्मावस्थस्यैकस्यैव जगदुपादानत्वाङ्गीकारे न तत्वाधिक्यं ;
ततोऽवस्थान्तरस्य सूक्ष्मत्वेन यावतीनां तादृशीनावस्थानामेकत्वेन भेद-
 
भावप्रकाशः
 
मेव हि सिकताभ्यस्तिलानां तैलोपादानानां भेदो यदेतेष्वेव तैलम-
स्त्यनागतावस्थं न सिकतासु' इति वाचस्पत्युक्तदृष्टान्ते अनागता-
वस्थतैलादतिरिक्तः कठिनभागस्तिलेषु वर्तते दाष्टन्तिके त्वनभिव्यक्तं
महत्तत्वमेव प्रकृतिरिति नोभयोरानुरूप्यमिति दूषयति *'मैवमि -
त्यादिना ॥