2025-01-21 07:36:16 by ambuda-bot
This page has not been fully proofread.
सरः]
त्रिगुणपरीक्षायां प्रकृत्यनुमाननिरासः
135
सर्वार्थसिद्धिः
ननु कारणशक्तिर्नाम सत्कार्यपक्षे 'न कार्यस्याव्यक्तत्वादन्या
यथा तिले तैलस्य ; अतस्सर्वकार्योपादानाव्यक्तसिद्धिरिति ;
आनन्ददायिनी
तीति भावः । ननु सांख्यपक्षे कारणे शक्तिः कार्यमेव; सा चाव्यक्ता-
दनन्यैव शक्तिविशिष्टस्यैवाव्यक्तत्वात् । तथा च महतस्तत्का-
रणाद (स्वज्ञात्र) भिन्नता । तथाहङ्कारस्यापि महदभिन्नत्वमेव -
मिन्द्रियादिकार्याणामपि महदभिन्नतया सर्वस्यापि महदुपादान-
भूतैककारणतया अव्यक्तसिद्धिरिति शङ्कते —— नन्विति ।
भावप्रकाशः
'सन्ति प्रागप्यवस्थाः' इत्यत्र वक्ष्यमाणरीत्या धर्म्यंश इव धर्मां-
शेऽपि सत्कार्यवादस्य साङ्ख्यैरङ्गीकारेण उभयोर्नित्यतया 'परमार्थ-
तस्त्वेक एव परिणामः । धर्मिस्वरूपो हि धर्मो धर्मिविक्रियैवैषा धर्म-
द्वारा प्रपञ्चयते' इति योगभाष्ये धर्धलक्षणावस्थापरिणामानां तत्वत
एकत्वाभिधानेन तन्नयायेन परिणामस्य गुणत्रयस्वरूपत्वेन परमार्थतो
बहुत्वस्यैव वाच्यत्वेनैकत्वासम्भवात् मृद्घटवत्तन्तुपटवद्वाऽत्र परिणाम
इति युक्तया निश्चयासम्भवेनैवमप्यप्रयोजकत्वादिति चार्थः ।
1
'* न कार्यस्याव्यक्तत्वादन्येति । धर्मधर्मिणोरभेदेनानाभिव्यक्त-
कार्यमेव शक्तिः; तच्च कारणमेव । अभेदेऽपि भेदव्यवहारो नील-
घटयोरिव भेदविवक्षया युज्यते । शक्तिमतः कारणत्वकल्पनापेक्षया
शक्तेः कारणत्वे लाघवादरिक्तशक्तिकल्पने मानाभावाच्चेत्ति भावः ।
अतिरिक्तशक्तिसाधने प्रमाणादिकं ' इत्यादिघोषो विरमति विदिते
शब्दतरशक्तितत्वे' इत्यद्रव्यसरे वक्ष्यते इत्याभिप्रेत्य प्रकृते ' अय-
८