2025-01-21 07:36:16 by ambuda-bot
This page has not been fully proofread.
134
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
सर्वार्थसिद्धिः
[जडद्रव्य
तुकत्वक्लप्तिश्च निरस्ता *'सत्वादीनां भिन्नत्वात् * विकारित्वा-
*च्च । अथाभिन्नकारणान्तरक्लृप्तिः ; तथा सति स्वाभीष्टत-
त्वसंख्याविरोधः । सत्वादिद्रव्य भेदाभ्युपगमाच्च । शक्तितः
प्रवृत्तेश्चेत्येतदपि मन्दं ; यदि कारणशक्तितः कार्यं प्रवर्तते
कथमव्यक्तसिद्धिः?
आनन्ददायिनी
ननु तत्र न बाधः । ईश्वरानुमानवत्कारणान्तरस्य सिद्धेरित्यत्राह -
तथासतीति । त्वन्मते न कल्प्यमानेनैव संख्याविरोधः अपि तु क्लृप्ते-
नापीत्याह — सत्वादीति । यदपि महदादिकार्यं कारणशक्तया प्रवर्तते
कार्यत्वाद्धटवदिति शक्तितः प्रवृत्तेश्चेति विवक्षितमनुमानं तदनुवदति-
शक्तितःप्रवृत्तेश्चेतीति । दूषयति—कथमिति । तत्तत्कार्याणां तत्त-
त्कारणशक्तया प्रवृत्तावपि महदादिकार्याणां नैकं कारणमव्यक्तं सिध्य-
भावप्रकाशः
भेदेन भिन्नत्वे सतीत्यर्थः । अभिन्नहेतुकत्वेत्यत्रापि प्रतिसर्गभेदेनेति
विवक्षितं । * - सत्वादीनां भिन्नत्वादित्यादि — सदृश विसदृश परिणाम-
भेदेन सत्वादीनामपि भेदादित्यर्थः । 'विकारित्वादिति —–परिणा-
माश्रयत्वादित्यर्थः । ननु– ' परिणामैक्याद्वस्तुतत्वम्' इति योगसूत्रे
(४-१४) वस्त्वैक्यव्यवहारे परिणामैक्यं निदानमिति स्पष्टं । तत्र च
तत्ववैशारद्यां वाचस्पतिः - 'बहूनामप्येकः परिणामो दृष्टः; तद्यथा
गवाश्वमहिषमातङ्गानां रुमानिक्षिप्तानां एको लवणत्वजातीयलक्षणः
परिणामः । वर्तितैलानां च प्रदीप इति' इत्याह । एवं च प्रतिस-
गवस्थायां सदृशपरिणामाश्रयत्वमेवैकत्वमिति चेत्तत्राह — 3 चेति ।