This page has not been fully proofread.

सरः ]
 
त्रिगुणपरीक्षायां प्रकृत्यनुमाननिरासः
 
133
 
सर्वार्थसिद्धिः
 
ननु 'साम्यावस्थानां सत्वरजस्तमसां संघातः प्रकृतिः ; अतः
कारणैकत्वं स्यात् ? * तन्न चित्रपटारम्भक शुक्लकृष्णरक्ततन्तुसं-
घातन्यायेन सूक्ष्मदृष्टयै कार्याणां यथास्वं कारणभेदस्यैवाङ्गी-
कारात् । ततश्च भेदानां भिन्नत्वे सति विकारत्वादभिन्न-
आनन्ददायिनी
 
यथास्वमिति—कार्यस्य सुखाद्यात्मकत्वे सत्वरूपत्वरजोरूपत्वतमोरूप-
त्वांशभेदेन भिन्नत्वात्तत्तदंशे तत्तत्स्वरूपस्य हेतुत्वात्सर्वं प्रत्यपि नैकमु-
पादानमिति भावः । नन्वेकमृत्पिण्डेन क्रमेणोत्पन्नानां घटशरावादीनां
दर्शनात् विमतमेकोपादानकं भिन्नत्वे सति विकारत्वादेकमृत्पिण्डो-
पादानकघटशरावादिवदित्यनुमानस्य किं दूषणमित्यत आह—
ततश्चेति । सत्वादीनामेव त्वन्मते प्रकृतित्वाद्वाधो व्यभिचारश्चेति भावः ।
 
भावप्रकाशः
 
पुरुषस्य दर्शनार्थं कैवल्यार्थं तथा प्रधानस्य ।
पङ्गन्धवदुभयोरपि संयोगस्तत्कृतस्सर्गः ॥
 
इत्यत्र प्रकृतिपुरुषसंयोगस्य भोगापवर्गमहदादिसर्गहेतुत्वोक्तया मह-
दाद्युत्पत्तेः पूर्वं तथा संयोगोक्तयसंभवादिति भावः ॥
 
1 * साम्यावस्थानामिति - प्रतिसर्गावस्थायां सत्वं रजस्तमश्च सदृशपरि-
णामानि भवन्ति । 'सत्वं सत्वरूपेण' इति वाचस्पत्युक्तरीत्या
सदृशपरिणामाश्रयाणामित्यर्थः । एतेन प्रतिसर्गभेदेऽप्यभिन्नत्वमेकत्वं
वंशीधरोक्तमपि सूचितम् । संघातस्य प्रत्येकानतिरेकान्मुख्यमेकत्वं
न संभवतीति दूषयति'* तन्नेत्यादिना । * भिन्नत्वे सतीति-प्रतिसर्ग-
दूषयति'*तन्नेत्यादिना
 
3