This page has not been fully proofread.

सरे:]
 
त्रिगुणपरीक्षायां प्रकृत्यनुमाननिरासः
 
131
 
सर्वार्थसिद्धिः
 
प्रीत्यप्रीतिविषादजनकत्वं दृष्टं तदपि तत्तद्गत ' विचित्र-
गुणविशेषहेतुकं युक्तमिति तन्न ; *संप्रतिपन्नदृष्टादृष्टहेतु-
शक्तैव सर्वोपपत्तौ तदतिरिक्तत्रैगुण्यक्कृप्तययोगात् । गुणानां
कार्यैकनिरूपणीयत्वभाषणमपि शास्त्रोपज्ञं । अन्यथा त्रैगुण्योन्मेष -
आनन्ददायिनी
 
विचित्रगुणहेतुकं—सत्वरजस्तमोगुणहेतुकमित्यर्थः । आद्यं पक्षं दूष-
यति - संप्रतिपन्नेति । दृष्टं - कण्टकवेधादिः । अदृष्टं - धातुवैषम्यादि ।
द्वितीयं दूषयति – गुणनामिति । भाषणं – भाष्ये प्रतिपादनमित्यर्थः ।
' प्रीत्यप्रीतिविषादात्मानः ' 'सत्वं लघु प्रकाशकम्' इत्यादि सांख्यनां
भाषणभित्यन्ये । त्रैगुण्यक्लृप्त्ययोगादित्यत्र विपक्षबाधकमाह-अन्यथेति ।
न सत्वमात्रं सुखं जनयति सन्ततजननप्रसङ्गात् अपितून्मिषितम् ।
तथाचोन्मेषेऽपि विलक्षणास्त्रयो गुणाः कल्पनीयाः ।
 
भावप्रकाशः
 
1
 
यत् सुखहेतुः तत् सुखात्मकं सत्वं । यद्दुःखहेतुः तद्दुःखात्मकं रजः ।
यन्मोहहेतुः तन्मोहात्मकं तमः इति ' * विचित्रेति ——गुणेषु विचित्रत्वं
परस्पराभिभाव्याभिभावकभावापन्नत्वं । अत्र वंशीधरः — निमित्तोपादा-
नकारणद्वयकल्पने गौरवाल्लाघवानुकूलतर्कात्सुखाद्यात्मकत्वं बाह्यानां
सिध्यतीत्याह । तदुक्तदिशा सत्वरजस्तमसामनङ्गीकारेऽतीव लाघवात्
साङ्ख्यानां मूलोच्छेद इत्याह — 2 * सम्प्रतिपन्नेत्यादिना-
कारणमस्त्यव्यक्तं प्रवर्तते त्रिगुणतसमुदायाच्च,
 
इत्यत्र 'प्रवर्तते त्रिगुणत इति खण्डमित्थं विवृतं माठरवृत्तौ - यद्येकं प्रधानं
कथं तर्ह्यनेकं कार्यमुत्पादयतिः तथाहि - नैकस्तन्तुः पटाख्यं कार्यं जनयति
 
9*