This page has not been fully proofread.

130
 
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
 
'सर्वार्थसिद्धिः
 
[जडद्रव्य
 
मुन्नीयेत। *'ननु सुख्यामि दुः ख्यामि मुह्यामीति स्वानुभवसिद्धा-
स्तावत्सुखादयः । ते च कार्यभूतास्स्वानुरूपं कारणमाक्षिपन्ति ।
तथा तथा तेषुतेषु विषयेषु कालभेदेन पुरुषभेदेन च
आनन्ददायिनी
 
शङ्कते ——–नन्वित्यादिना । तथेति । सर्वे पदार्थास्सुखदुःखमोहात्मकाः ।
यथैकमेव वस्तु कंचिद्दुःखाकरोति कंचित्सुखाकरोति कंचिन्मोही
करोति ; तथा कालभेदेनैक (मेव ) पुरुषं प्रति यथाग्निः । तत्र
सुखं सत्वात्मकं सत्वपरिणामः दुःखं रज-परिणामः मोहस्तम
परिणाम इति ' प्रीत्यप्रीतिविषादात्मान' इत्यादिना साङ्ख्यैरुपपादितैः
सुखादिभिस्सत्वादिसमनुगतिरनुमीयते । न तदर्थं श्रुत्यपेक्षेति भावः ।
 
भावप्रकाशः
 
क्वचिद्दुःखसुखादिशब्दाः लोके प्रतिकूलानुकूलवस्तुन्युपचारेण प्रयुज्यन्ते
इति । ननु सुखादिकं सकारणकं कार्यत्वादित्यनुमानेन सत्वादिसमन्वय-
स्सिध्यतीति शङ्कते '* नन्विति । तदुक्तं 'सत्वं लघु ' (१३) इत्यादिवि-
वरणतत्वकौमद्यां—'अत्र च सुखदुःखमोहाः परस्परविरोधिनः स्वस्वानु-
रूपाणि सुखदुःखमोहात्मकान्येव निमित्तानि कल्पयन्ति । तेषां च परस्पर-
मभिभाव्याभिभावकभावान्नानात्वं ; तद्यथा —– एकैव स्त्री रूपयौवनकुल-
शीलसंपन्ना स्वामिनं सुखाकरोतिं; तत्कस्य हेतोः ! स्वामिनं प्रति
तस्याः सुखरूपसमुद्भवात् । सैव स्त्री सपत्नीर्दुखाकरोति; तत्कस्य
हेतोः ! तां प्रति तस्याः दुःखरूपसमुद्भवात् । एवं पुरुषान्तरं
तामविन्दमानं सैव मोहयति; तत्कस्य हेतोः ?
मोहरूपसमुद्भवात् । अनया च स्त्रिया सर्वे भावा
 
?
 
तं प्रति तस्याः
व्याख्याताः । तत्र