This page has not been fully proofread.

xviii
 
संगतिः सत्वानां तृष्णीयाः कारणाभिनिवेशश्च एतद्भो ब्राह्मण त्वदीयं
लोकायतं न मदीयम् ॥ (लं.सू.पू. १७८)
 
तत्वनिर्देशमनुवदता
 
इत्यादि तत्रतत्रोद्घोषितवता स्वीयं दर्शनं विहाय दर्शनसरणिस्सर्वा
लोकायतव्यपदेशगोचर . इति मन्यमानेन अतत्वपरवञ्चनौपयिक विचित्र-
पदघटनात्मकशुष्कतर्कवाङ्मयपरत्वं लोकायतशब्दस्योपपादितंभवति ॥
देशिकमणिनापि सर्वार्थसिद्धौ ' चत्वार्येव तत्वानि । अधिकानि तु
तावन्मात्रविभागोद्देशादपोढानि अतिरिक्तचेतननिषेधाच्च' इति तदीय-
प्रात्यक्षिकातिरिक्तप्रमेयाक्षेपाभिप्रायकवादरूपता
लोकायतदर्शने प्रदर्शिता । परमतभङ्गे च – (७४ पृ) माध्यमिकभङ्गाधि-
कारे ' कस्यचित् परस्परविरुद्धनानामतप्रलापेषु ऐदम्पर्यनियामकविरहात्
सर्वेषामेव तेषां भ्रमादिरेव मूलं पर्यवस्यति' इति वदता आचार्येण
बुद्धस्य लङ्कावतारसूत्रेषु कतिपयवाक्यानां सिद्धान्तपरतया दृश्यमानानां
सत्त्वेऽपि पूर्वोत्तरनिरूपणदैौष्ठुल्यविहतार्थतयाऽनुपादेयता पर्यवसानबोधनेन
तत्रत्यं दर्शनान्तराणां लोकायतत्वकथनमप्यनूद्य निरस्तं भवति ॥
 
-
 
एवं तत्रैव (५९) आस्तिक्यावहेलनवचांस्यनुवदता च निरर्थ-
कवैतण्डिककथामात्रत्वं स्पष्टमुक्तं भवति ॥
 
लौकायतिकपदं च लोकायतमधीते इति व्युत्पत्त्या प्रवर्तते इति
क्रतूक्थादिगणे लोकायतपदं पठतः पाणिनेरभिमतमिति निर्विवादम् ।
लोकायतशब्दश्च लोके आयतं इति विग्रहेण सर्वजनविदितं प्रियमित्यर्थको
भवति। सर्वजनप्रियता च निर्विशयपरिग्रहानुकूलप्रतिपत्तिकरत्वरूपा आमु-
ष्मिकार्थकथादूरतयोपपन्ना भवितुमर्हति । ' प्रत्यक्षं तद्विशेषरूपमन्वय-
व्यतिरेकदर्शनं च परिगृह्य प्रवृत्तं शास्त्रम्' इति 'अर्थकामरूपपुरुषा-
र्थयुग्मानुकूलनीतिस्तेयकामशास्त्राद्यैककण्ठ्येन परमहितमिदं शास्त्रम् '
इति ' धर्मविरुद्धार्थकामयोरननुतापिनः निरन्तरं तत्र प्रवृत्ता इह दर्शने
समयिनः' इति च शास्त्रप्रवृत्तिक्रमं समानैदम्पर्यशास्त्रान्तरैककण्ठ्यं