2025-01-21 07:36:16 by ambuda-bot
This page has not been fully proofread.
सरेः]
त्रिगुणपरीक्षायां प्रकृत्यनुमाननिरासः
129
भावप्रकाशः
इति स आदित्यः कस्मिन् प्रतिष्ठित इति चक्षुषीति कस्मिन्नु चक्षुः
प्रतिष्ठितमिति रूपेष्विति चक्षुषा हि रूपाणि पश्यति कस्मिन्नु रूपाणि
प्रतिष्ठितानीति हृदय इति होवाच यस्माद्धृदयेन रूपाणि सर्वो लोको
जानाति तस्मादये ह्येव रूपाणि प्रतिष्ठितानि भवन्ति ' इत्यत्र
रूपस्य चक्षुर्जन्यज्ञानविषयत्वेन चक्षुषो रूपे प्रतिष्ठितत्वं मनसो ब-
हिरिन्द्रियसहकारितया रूपस्य तदधीनज्ञानविषयतया ज्ञापके हृदये
प्रतिष्ठितत्वमुक्तं । तावन्मात्रेण जगतस्सुखदुःखमोहात्मकत्वं न कथ-
ञ्चिदपि सिध्यति आनन्दरूपस्य जीवस्य स्वयंप्रकाशतायाश्शास्त्र-
तस्सिद्ध्या मनो न सुखात्मकं अस्वयंप्रकाशत्वात् यन्नैवं तन्नैवं
यथा चेतन इति व्यतिरेकिणा सुखदुःखादेद्धर्मभूतज्ञानावस्थावि-
शेषरूपत्वस्वयंप्रकाशत्वादेर्व्यवस्थापयिष्यमाणतया सुखदुःखादिकं मनो
भिन्नं स्वयंप्रकाशत्वादित्यन्वयिना चानुमानेन जडस्य मनस एव
सुखाद्यात्मकता दूरोत्सारितेति का कथा जगतः ? ' वस्त्वेकमेव दुःखाय
सुखाय' इति सुखदुःखहेतुत्वं जगतोऽभिधाय ;
'
तस्माद्दुःखात्मकं नास्ति नच किञ्चित्सुखात्मकम् ।
इति सुखाद्यात्मकत्वनिषेधाच्च ।
तत्सन्तु चेतस्यथवाऽपि देहे
सुखानि दुःखानि च किं ममात्र ।
इति वंशीधरोदाहृतं मार्कण्डेयवचनं यदि प्रमाणं तदा भावल-
क्षणसप्तम्याश्रयणेन सुखदुःखयोः चतो देहप्रयुक्तत्वेनात्मस्वरूपप्रयुक्तत्वा-
भावपरतया-
'निर्वाणमय एवायमात्मा ज्ञानमयोऽमलः ।
दुःखाज्ञानमला धर्माः प्रकृतेस्तेन चात्मनः ॥
इति विष्णुपुराणवचनं यथा वेदार्थसंग्रहे व्यवस्थापितं तथा निर्वाह्यम् ।
SARVARTHA.
9