This page has not been fully proofread.

128
 
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
 
सर्वार्थसिद्धिः
 
[जडद्रव्य
 
दृष्टान्तासिद्धिः । अवतिहेतुविवक्षायामपि नदृष्टः कारणभेदो
पह्नोतुं शक्यः । नापि कारणान्तरमेकं विधातुं । टैरेव
हेतुभि रदृष्टघटितैः कार्याणां चरितार्थत्वात् न च शास्त्रमन्तरेण
जगत ' *स्सत्वादिगुणसमन्वयस्सिद्धः येन तन्मयं कारण
 
1
 
आनन्ददायिनी
 
जातमेकोपादानकं एकरूपान्वितत्वात् यदेकोपादानकं न भवति तदेक-
रूपान्वितमपि न भवति । यथात्मानात्मानौ यथा वा शशशृङ्ग
कूर्मरोमाणीति तत्राह— अवीतेति—व्यतिरेकीत्यर्थः । किं दृष्टाना
मेवोपादानानामैक्यं सध्यते । उत तदतिरिक्तैकोपादानकत्वमिति
विकल्प्याद्यं दूषयति न दृष्ट इति । तथा च बाध इति भावः ।
द्वितीयं दूषयति । नापीति । शक्यमिति शेषः । तथाचाप्रयोजकत्वमिति
भावः । न चेति । तथा च सत्वादि समन्वितकारणस्य तदैक्यस्य
च श्रुत्यैव सिद्धत्वात्किमनुमानेनेति भावः । ननु (प्रत्यक्षेण तन्मू-
लकानुमानेन वा) लिङ्गग्रहणे तदर्थं श्रुत्यनपेक्षणान्नानुमानवैयर्थ्यमिति
 
भावप्रकाशः
 
1 * सत्वादीति – आदिपदेन रजस्तमसोः परिग्रहः । महदादि -
कार्यस्य त्रिगुणसमन्वयहेतुश्शास्त्रत एव ज्ञेयः । एवं च तत एव
प्रकृतिज्ञानं संभवतीति तदर्थमनुमानादरोऽयुक्त इति भावः । अत्र
सुखादिसमन्वय इत्यनुक्ता सत्वादि समन्वय इत्युक्तया जगत-
स्सुखदुः
ःखमोहात्मकत्वं शास्त्रण न प्रतिपाद्यते इति सूचितं । तथा हि
बृहदारण्यके (५-९) किन्दैवत्योस्यां प्राच्यां दिश्यसीत्यादित्यदैवत
 
6