2025-01-21 07:36:14 by ambuda-bot
This page has not been fully proofread.
126
सव्याख्यसवीथीसद्धिसहिततत्वमुक्ताकलापे
सर्वार्थसिद्धिः
[जडद्रव्य
धूतं सर्वथा सारूप्ये हेतौ तत्वभेदभङ्गप्रसङ्गात् । यथाकथं
चित्सारूप्येतु व्यभिचारात् । साक्षादेकोपादानत्वसाधने सृष्टि-
क्रमादिशैथिल्यं स्यात् । मृत्तन्त्वाद्युपादानभेदश्च निहूयते ।
परम्परयेति तु मृद्घटादिनिदर्शनविरुद्धं । नित्येषु च पुरु
षेषुसाक्षित्वादयो धर्मास्साधारणा युष्माभिरेव पट्यन्ते न तु
हेतव इष्टाः । व्यक्ताव्यक्तयोश्च त्रिगुणमविवेकीत्यदि साध
आनन्ददायिनी
Q
तेषां
दाकारेण वेति विकल्पमभिप्रेत्याद्यं दूषयति — सर्वथेति । तथा च
महदादय इति पक्षबहुत्वासिद्धे (राश्रयसिद्धि) रित्यर्थः । द्वितीयं
दूषयति —यथाकथञ्चिदिति । द्रव्यत्वेनैकरूपवद्भिर्भिन्नैः मृत्तन्तूपादान-
कैर्व्यभिचारादित्यर्थः । किञ्चैकोपादानक (त्व) : मित्यत्र किं साक्षा-
देको पादानकत्वं साध्यते उत परम्परया यद्वा सामान्येनेति विक-
ल्पाभिप्रायेणाद्ये दूषणमाह – साक्षादिति । सृष्टिक्रमादीति । प्रकृतेर्म-
हान्महतोऽहङ्कारस्ततस्तन्मात्राणत्यिादिक्रम इत्यर्थः ।
तथाचागमबाध
इति भावः । व्यभिचारश्चेत्याह — मृत्तत्वादीति । द्वितीयं दूषयति-
परम्परयेति । (तथाच) दृष्टान्ते साध्यवैकल्यमिति भावः । तृतीयं दूष-
यति—नित्येषु चेति ।
' तस्माच्चविपर्यासात्सिद्धं साक्षित्वमस्य पुरुषस्य । कैवल्यं
(कैवल्याध्यस्तत्वं) माध्यस्थ्यं द्रष्टृत्वमकर्तृभावश्च ॥
इत्यनेनेति शेषः । ननु नास्मन्मतेडापे नित्यत्वं हेतुमत्त्व विरोधी-
त्यत्राह — नतु तेषामिति । अभिव्यञ्जका अपि तेषां नेष्टा इति भावः ।
ननु यत्कार्यं येन सहैकरूपं तत्तेन सह समानो (सहैको) पादानकमिति
विवक्षितमित्यत्राह—व्यक्ताव्यक्तयोश्चेति । आदिशब्दार्थस्तु
विषयस्सामान्यमचेतनं प्रसवधर्मि ।