This page has not been fully proofread.

सरः]
 
त्रिगुणपरीक्षायां प्रकृत्यनुमाननिरासः
 
125
 
सर्वार्थसिद्धिः
 
विभक्तस्याविभक्तस्य वा तेष्वनुगतत्वादृष्टेः
 
यदप्येकरूपा-
न्वितत्वात् एकोपादानत्वमिच्छन्ति । तदपि स्वपरमतनि-
आनन्ददायिनी
 
विभक्तस्य——कार्यावस्थस्य । अविभक्तस्य — कारणावस्थस्य । तस्या-
भेदेन तदात्मकतया तद्वृत्तित्वासिद्धेरिति भावः । ननु समन्वयादि-
त्यस्य एकरूपान्वितत्वादित्यर्थस्य च साध्यमे कोपादानकत्वमिति च
कस्य चिन्मतमनूद्य दूषयति-- यदपीत्यादिना । स्वपरमतनिर्धूतं-
स्वपरमतानुसारेण घटादिषु व्याप्तिशून्यमित्यर्थः । किं च एकरूपा-
न्वितत्वं नाम सर्वथास्व (सर्वसारूप्यं) रूपैक्यं विवक्षितं उत यत्किञ्चि-
 
भावप्रकाशः
 

 
स्थार्थिकः ष्यञ् इति तद्विवरणेऽपि । अवश्यं चैकोपादानत्वं सा-
स्साधनयं अन्यथा अनुमानेनानकपरमाणूपादानकतां कार्यजातस्य
साधयतो वैशोषिकादेस्स्वस्य वैलक्षण्यमेव न स्यात् । नच–
 
शब्दस्पर्शविहीनं तद्रूपादिभिरसंयुतम् ।
त्रिगुणं तज्जगद्योनि
 
. 11
 
इति विष्णुपुराणोक्तं रूपादिराहित्येन वैलक्षण्यं वंशीधरेणोक्तमिति
न दोष इति वाच्यम् । अनुमानेन साधनावसरे आगमोदाहरणस्या-
नवसरग्रस्तत्वात् उपादानस्यैकत्वे लाघवमेव विपक्षे बाधकस्तर्कः ।
समन्वयादिति हेतौ च समित्येकीकारे । एतत्तात्पर्यकमेव ' भिन्नानां
समानरूपता समन्वयः' इति तत्वकौमुदीवाक्यमित्यभिप्रयन् तन्मत
मुपन्यस्यति—'* यदप्याहुरिति ।