2025-01-21 07:36:14 by ambuda-bot
This page has not been fully proofread.
124
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
सर्वार्थसिद्धिः
1
[जडद्रव्य
अन्यथा व्यक्ताव्यक्तसाधारणधर्माणां तदुभयकारणत्वप्रसङ्गात् ।
तथा च तत्वाधिक्यप्रसङ्गः । एतेन विगीतं स्वानुगत कारणकं
कार्यत्वात् घटशरावादिवदित्यपि निरस्तं । घटादिष्वनुगतस्य
मृत्त्वस्य तत्कारणत्वासिद्धेः । मृद्दव्यस्य तु घटाद्यात्मना
आनन्ददायिनी
सर्वस्यापि कारणत्वमस्त्वित्यत्राह — अन्यथेति ।
-
6
त्रिगुणमविवेकि
विषयः' इत्यादिना त्वया प्रतिपादितानां त्रिगुणत्वादीनामित्यर्थः ।
इष्टाप (त्त्या) त्तिं परिहरति---तथाचेति । त्रिगुणापेक्षयापि कारणं
तत्वान्तरं स्यादित्यर्थः । इदमुपलक्षणं - - प्रकृतेरपि विकृतित्वं स्यादिति
' प्रकृति विकृतयस्सप्त' इत्युक्तं विरुध्येतेत्यपि ध्येयं । ननु कार्यस्य
स्वानुगतकारणकत्वमात्रं साध्यं न तु तदनुगतानां यावतां तत्कार-
तथा च शौक्कयादिषु न व्यभिचार इत्यत्राह — एतेनेति ।
एतेनेत्युक्तमेवाह - घटादिष्विति । तथा च व्यापयत्वासिद्धिरिति भावः ।
णत्वं ।
भावप्रकाश:
चितमनुमानाकारमाह – 1 विगीतमित्यादिना ।
' हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रितं लिङ्गम् ।
सावयवं परतन्त्रं व्यक्तं विपरीतमव्यक्तम् ' ॥ (१०)
इत्यत्र अनेकेषां महदादीनामेकस्याव्यक्तस्य लिङ्गत्वं स्फुटम् ।
'भेदानां परिमाणात् समन्वयात् शक्तितः प्रवृत्तेश्च ।
कारण कार्यविभागादविभागाद्वैश्वरूप्यस्य ॥ (१५)
कारणमस्त्यव्यक्तम्' इत्यस्य वैश्वरूप्यस्य– नानारूपस्य कार्यस्य