This page has not been fully proofread.

सर: ]
 
त्रिगुणपरीक्षायां प्रकृत्यनुमाननिरासः
 
123
 
1
 
सर्वार्थसिद्धिः
 
व्याप्तिवचनं " तदनंतमसंख्यातप्रमाणं च " इत्यादिकमपि, विभु-
त्वमन्तरेणापि स्यात् घटादीनामपि स्वन्यूनपरिमाणैः पिण्डा-
द्यवयवैरेवोत्पत्तिरिति समन्वयश्च कुत्र केषां कीदृश: ?
* सुखादिरूपेषु कार्येषु सत्वादीनां समनुगतिरिति
चेत् किमतः ? न हि यद्येष्वनुगतं तत्तेषां कारणमिति
नियमः शौक्लथगोत्वादेरनेकानुगतस्य तत्कारणत्वाभावात् ।
आनन्ददायिनी
 
व्याप्तिवचनं— अपरिच्छिन्नत्ववचनं । अव्यक्ते व्यभिचारप्रदर्शनस्य-
सिद्ध्यसिद्धिदोषादुदाहरणान्तरे व्यभिचारमाह - घटादीनामपीति । सम-
न्वयादित्युक्तं दूषयितुमुपक्रमते -- समन्वयश्चेति । अत्रैवमनुमान-
प्रयोगः– विवादाध्यासिता महदादिभेदाः स्वानुगताव्यक्तकारणवन्तः ।
समन्वयात् । यानि च यद्रूपसमन्वितानि तानि तत्स्वभावाव्यक्तकारण-
कानि यथा मृद्धेमरूपसमन्विता घटमकुटादयो मृद्धेमपिण्डाव्यक्त-
कारणका इति । तथा च सुखदुःखमोहसमन्विता बुद्ध्यादयस्तादृशा-
व्यक्तं साधयन्तीति । सुखादिरूपेष्विति । भिन्नेष्वेकाकारतानुगति-
रिति तैरुक्तेस्सत्वादीनां सुखादिरूपेषु महदादिष्वनुगतिरित्यर्थः । (तत )
अव्यक्तकारणकमित्यत्रा (प्य) व्यक्तशब्दस्य कारणपरत्वे सिद्धसाधनात् ।
येषु यदनुगतं तत्तत्कारणमिति वक्तव्यं तत्राह नहीति । तत्र
हेतुमाह - शौक्कयेति । तथा च तत्र व्यभिचार (उक्त ) ? इति भावः ।
 
भावप्रकाशः
 
गुणसमन्वयस्समन्वयादित्यनेन विवक्षित इत्याशयेनाह '* सुखादि-
रूपेष्वित्यादि । यथा मृद्धेमपिण्डसमनुगताः इत्यादि तत्वकौमुदीसू-