2025-01-21 07:36:14 by ambuda-bot
This page has not been fully proofread.
122
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
सर्वार्थसिद्धिः
एकप्रमाणवेद्यत्वे कार्यकारणयोर्मथः ।
बोध्यबोधकते न स्तः सहदृष्टाग्निधूमवत् ॥
[जडद्रव्य
विप्रतिपन्नं प्रत्यनुमानं सार्थमिति चेन्न महदादीनप्यभ्युपे-
त्यानभ्युपेत्य वा तेष्वव्यक्तकारणकत्व विप्रतिपत्त्ययोगात् '*यद-
प्याहु: - कार्याणां स्वाधिकपरिमाणादुत्पत्तिर्नियतेति ; तदप्य-
सत् । वस्त्रादिषु वैपरीत्यदृष्टेः अव्यक्तस्य च परिच्छिन्नत्वं
परस्तान्मृत्यं भिनत्ति '
भिनत्ति " इत्यादिशास्त्रशतसिद्धं
66
तमसः
आनन्ददायिनी
रित्यर्थः । तथा च सिद्धसाधनमिति भावः । तदेव कारिकयोपपादयति-
एकेति । ननु धूमानयोरप्येकप्रमाणवेद्ययोरनुमापकत्वमनुमेयत्वं च
दृश्यत इत्यत्राह —– सहदृष्टाग्निधूमवदिति । एकप्रमाण वेद्यत्वमेकदा
निश्चितत्त्वमित्यर्थः । अत्र कैश्चिद्भेदानां परिमाणादित्यत्र भेदानां ---
कार्याणां परिमाणात् — स्वाधिक परिमाणकारणजन्यत्वस्य सिद्धत्वा-
न्महदादिकार्यापेक्षयाधिक परिमाणमव्यक्तं सिद्धं इति व्याचक्षते ।
तन्मतमाह ——यदप्याहुरिति । वस्त्रादिष्विति । तथा च विरुद्धमिति
भावः । व्यभिचारमप्याह — अव्यक्तस्यचेति । भिनत्ति — तरति ।
भावप्रकाशः
गमतस्सिध्यतीति नायकसरे (२५) वक्ष्यते । ततश्चैतत्पक्षेऽर्थान्तर-
मित्यपि बोध्यम् । माठरवृत्त्यनुयायिकल्पितमर्थं दूषयितुमनुवदति ।
1 * यदप्याहुरिति .' कारणगुणात्मकत्वात् । समन्वयात् ' इति
हेतुद्वयस्यैकत्रैव पर्यवसानस्य तत्वकौमुद्यां व्यक्ततया कार्येषु कारण-