This page has not been fully proofread.

सर:]
 
त्रिगुणपरीक्षायां प्रकृत्यनुमाननिरासः
 
121
 
सर्वार्थसिद्धिः
 
महत एव सहकारिभेदा' * त्सर्ववृत्त्याविरोधात् । अत एव
शास्त्रतो महदादितत्त्वसिद्धावपि तेषां पृथक्करणत्वं वृत्त्याश्रयत्वं
वान कल्प्यं । एवं चक्षुरादिष्वालोचनोक्तिरपिनेया । न
द्वितीयः महदादीना * मागमतस्सिध्यतां साक्षात्परम्परया वा
प्रधानजन्यत्वसिद्धेरनुमातव्याभावात् ।
 
आनन्ददायिनी
 
कारेण (अस्मीदन्ताकारेण ) ज्ञानं आदिशब्दार्थस्तु सङ्कल्पाभिमानौ ।
सहकारिभेदात्–तत्तद्गोळकाधिष्ठानभेदात् । शास्त्रतोमहदादीन-
सिद्ध्यङ्गकर्तुः पृथक्करणत्वं वृत्तिभेदश्चसिद्ध इति । अन्तःकरण-
त्रैविध्यदूषणं सिद्धान्तिनो ?
सिद्धान्तिनो ? सङ्गतमित्यत्राह -- अत एव शास्त्रत
इति । एकस्यैव वृत्तिभेदसंभवादिति भावः । एवं चक्षुरादिष्वितिळां
रूपादिषु पञ्चानामालोचनमात्रमिष्यते वृत्तिः -
 
इति बाह्येन्द्रियस्यान्तरिन्द्रिय भेदकवृत्ति भेदकल्पनमपि नोप।
पद्यते । आलोचनसङ्कल्परूपवृत्त्यापि एकत्रैवोपपत्तेरिति भावः ।
एवं सर्ववृत्तीनामेकाश्रयत्वेसति चक्षुरादिष्वाप्तागमेष्वालेाचनाख्यवृत्त्य-
भेदोक्तिरपि राज्यं सुखमितिवद्गौण्यावृत्त्या नेतव्या स्यादित्याह -
एवं चक्षुरादिष्वितीत्यप्याहुः । महदादीनामनुमानसिद्धानां पक्षत्वा
मागमसिद्धानां पक्षत्वं वेत्याद्यविकल्पे द्वितीयं दूषयति- न द्वितीय इति ।
साक्षात्परम्परया वेति । प्रकृतेन्महान्महतोऽहङ्कार इत्येवंरूपेण सिद्धे-
भावप्रकाशः
 
'* सर्ववृत्त्यविरोधादिति—— एतदपि तत्रैव हेतुः ।
 
2* आगमतस्सिध्यतामिति - जगतोऽपरिमितं ब्रह्मोपादानकत्वमा-