This page has not been fully proofread.

120
 
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
 
[ जडद्रव्य
 
सर्वार्थसिद्धिः
 
श्रुतेः । कामादीनां मनस्सामानाधिकरण्यं आयुर्धृतम् इति
* वद्भाक्तं । महतश्च त्वया मिथो मनस्येव विरुद्धभावाष्टक -
सुखदुःखाद्याश्रयत्व' स्वीकारात् । वाह्येन्द्रियमनोहंकाराणा-
मालोचनादिवृत्तिभेदाश्रयणमप्ययुक्तं ।
 
आनन्ददायिनी
 
वृत्तिभेदस्याश्रयभेदकत्वे व्यभिचारमप्याह - कामस्सङ्कल्पइति । आयु-
घृतमितिवदति-- कारणे कार्योपचारः । ननु विरुद्धवृत्ति ( बुद्धिवृत्तिः )
राश्रयभेदिकेत्यत्राह ——महतश्चेति । भावाष्टकं धर्माधर्मज्ञानाज्ञान वैरा-
ग्यावैराग्यैश्वर्यानैश्वर्याणि । तेषां बुद्धिधर्मत्वं ' धर्मोज्ञानं विरागऐश्वर्यम् ' ।
इत्यादिना निरूपितं । अत्र वाचस्पतिना व्याख्यातं— धर्मोनाम
यागादिजनितोऽष्टाङ्ग योगाभ्यासजनितश्चाभ्युदयनिश्रेयसहेतुभूतो गुण-
विशेषः । ज्ञानं तत्त्वज्ञानं विरागोनाम 'दृष्टानुश्रविकविषय
वितृष्णस्य वशीकारसंज्ञा वैराग्यमिति' वशीकाराख्यं । ऐश्वर्यं -
अणिमादिप्रादुर्भावः । एवं चत्वारस्साविका (काख्याता) बुद्धिधर्माः ।
तामसास्तु तद्विपरीता अधर्माज्ञानावैराग्यानैश्वर्याख्याश्चत्वारः । तथा-
चाष्टविधा अन्योन्यविरुद्धा भावा बुद्धिनामक महत्तत्वधर्मा इति ।
वृत्तिभेदेन बाह्येन्द्रियमनोहङ्काराणाम्मह (तत्वाद्भेद) तस्तत्वान्तराद्भेद-
कल्पनं च न स्यादित्याह – बाह्येन्द्रियेति । आलोचनं -- सम्मुग्धा-
 
-
 
भावप्रकाशः
 
त्वादिति भावः । * भाक्तमिति । एतच्च (१३-६) गीताभाष्यतात्प-
र्यचन्द्रिकायां व्यवस्थापितम् ।
 
2
 
* स्वीकारादिति — एतच्च वृत्तिमदाश्रयणमव्ययुक्तामित्यत्रहेतुः ।