This page has not been fully proofread.

xvii
 
इति । ;आगमोपज्ञमेव च प्रसरति शुष्कतार्किक । ह्मणप्रवादः । यथा—
' किं ते कृण्वन्ति की कटेषु गावः ? नाशिरं दुहे न तपन्ति गावः ।
आनो भर प्रमगन्दस्य वेदो नैचाशाखं मघवन् रन्धयानः ॥
 
(ऋग्वेदे अष्टक ३. अ. ३. व. २१)
व्याख्याता चेयं ऋक् ( पू. मी. १-२-३९ सू.) कुमारिलै : -
 
अयं हि दृढेनाध्येतॄणां स्मरणेन विश्वामित्रस्यर्षं ? गम्यते । तेन
किल कर्मार्थं धनं प्रार्थयमानेन इन्द्रोऽभिहितः — त्रैलोक्याधिपते याः
कीकटेषु जनपदेषु गावस्तास्तव किं कुर्वन्ति ? ते हि नास्तिकाः किं क्रतु-
नेति वदन्तो न किञ्चित्कर्मानुतिष्ठन्ति । सोमसंस्कारार्थं न दुहन्ति न
घर्मतपने पयोदानेन साधनी भवन्ति । तस्मात्प्रमगन्दस्य कीकटाधिपतेर्य-
दो धनं तदस्माकं नैचाशाखं नगरमाभर ॥
 
इति । लङ्कावतारसूत्रेषु च बुद्धेन – (लं. सू. पृ. ३४६)
लोकायतमिदं सर्वं यत्तीयैर्देश्यते मृषा ।
 
एकं सिद्धान्तं लोकायतविवर्जितः शिष्यवर्गस्य देशेमि ॥
 
(ल. सू. पृ. ३४६)
 
लोकायतमेवानेकैराकारैः कारणमुखशतसहस्त्रैर्देशयन्ति ।
 
(लं. सू. पृ. १७५)
 
लोकायतो विचित्रमन्त्रप्रतिभानो न सेवितव्यो न भक्तव्यो न पर्युपासितव्यो
यं सेवमानस्य लोकामिषसंग्रहो भवति न धर्मसंग्रहः ॥ (लं. सू. पू. १७३)
 
शरी बुद्धिविषयोपलब्धिमात्रं हि महामते लोकायतिकैर्देश्यते
विचित्रैः पदव्यञ्जनैः; शतसहस्रं वै लोकायतम् ॥ (लं.सू.पृ. १७४)
यथा तीर्थकराणां आत्मेन्द्रियार्थसंनिकर्षात्त्रयाणां न तथा मम ॥
(लं.सू.पू. १७७)
संक्षेपतो ब्राह्मण यत्र विज्ञानस्यागतिर्गतिरुपपत्तिः प्रार्थनाभि-
निवेशाभिषङ्गो दर्शनं दृष्टिः स्थानं परामृष्टिः विचित्रलक्षणाभिनिवेशः
 
SARVARTHA.
 
b