This page has not been fully proofread.

सरः ]
 
त्रिगुणपरीक्षायां प्रकृत्यनुमाननिरासः
 
119
 
सर्वार्थसिद्धिः
 
जीवनपूर्वकः प्रयत्नः कल्प्यः । किमुतकस्य चिदचिद्द्रव्यस्य ।
परिमितत्वन्तु महतः कुतस्त्यं ? अन्तर्देहमेव तत्प्रवृत्त्युपलंभा-
दितिचेन्न । त्वत्पक्षे विभोरप्यात्मनश्शरीरावच्छिन्नप्रदेश एव
व्यापारावेशवद्विभोरपि महतस्सहकारिविशेषसामर्थ्यात्क्वाचि-
त्कप्रवृत्तिसंभावात् । न च वृत्तिभेदमात्रादन्तः करणभेदक्लृप्ति-
युक्ता ; कामस्सङ्कल्प इत्यादिना '* मनस्येव बहुविधवृत्ति-
आनन्ददायिनी
 
1
 
उच्छ्रासनिश्वासादिकं परप्रयतेनैव लोहकारभस्त्रिकान्यायेनोपपाद्यमिति
भावः । भेदानां परिमाणादित्यनुमाने अश्रयासिद्धिमुक्ता स्वरूपा-
सिद्धिमप्याह—परिमितत्वं (त्वं ) चेति । प्रकारान्तरेण लिङ्गसिद्धिं
शङ्कते —– अन्तरिति । तत्प्रवृत्तिः — प्रयत्नाध्यवसायादिः । व्यापारावेशः
मुखे दर्पणमालिन्यसम्बन्ध इवातात्विकः —— कृत्यध्यवसायसंस्पर्शः ?
(क्काचित्कः) ? ( तात्विकः ) ? सहकारिविशेषः —— काचित्कशरीरयो-
गादिः । अध्यवसायस्य प्रमारूपत्वादिति भावः । संस्पृश्यतेऽ-
नेनेति सहकारि वृत्तिविशेषादन्तः करणकल्पनेऽपि ' अन्तःकरणं
त्रिविधमिति' त्रैविध्यकल्पन मनुपपन्नमित्याह — नचवृत्तीति । एक-
स्यैवानेकवृत्तिसम्भवादिति भावः । तत्र श्रुतिबाधमप्याह-' कामस्सं-
कल्पइति' । सर्वशब्देनाध्यवसायादीनां धी पेदानां ग्रहः । यद्वा
 
भावप्रकाशः
 
'* मनस्येवेति । तर्कैकालम्बिगोष्ठयां लाघवस्य बहुमानार्ह -