2025-01-21 07:36:11 by ambuda-bot
This page has not been fully proofread.
1.18
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[ जडद्रव्य
सर्वार्थसिद्धिः
च द्रव्यत्वं नावश्यापेक्षितं । न च स्वप्ने व्याघ्राद्यभिमाना-
दहङ्कारक्लृप्तिः । मनसैव तादृशसंस्कारसधीचा तदुपपत्तेः ।
निश्वासादिहेतुभूत प्रयत्नाधारतया महत्क्लुप्तिरप्ययुक्ता । अह-
टवशादेव बाह्यस्येव आन्तरस्यापि मरुतस्स्पन्दोपपत्तेः । न
चादृष्टस्यापि महत्तत्वाश्रयत्वं इतः पूर्वं सिद्धं । यदा च ईश्वर
प्रयत्नाधीनत्वं उच्छ्वासादेस्सेत्स्यति । तदा क्षेत्रज्ञस्यापि न
आनन्ददायिनी
व्या(प्ति) तयादिज्ञानस्य (क ) ? कारणत्वदर्शनाद्यभिचार इति भावः । वृत्ति-
भेदान्मनः क्लृप्तिं दूषयित्वा तद्भेदादहङ्कारक्लप्तिं दूषयति न च स्वप्न
इति । एवमध्यवसायस्याप्यन्यथा सिद्ध्या न महत्तत्त्वसिद्धिरिति द्रष्टव्यं ।
ननु निश्वासादि हेतुप्रयत्नाधारतया महत्सिद्धिरिति (त्युक्तमितिचेत् )
चेत्तत्राह निश्वासादिहेतुभूतेति । नन्वस्तु तादृशादृष्टाधारतया मह-
त्सिद्धिरित्यत्राह — नचादृष्टस्यापीति । तथा च व्याप्तयसिद्धिरिति
भावः । कैमुतिकन्यायेनापि महतः प्रयत्नानाधारत्वमित्याह—–— यदेति ।
भावप्रकाशः
कार्यद्रव्यत्वान्निश्चयवृत्तिमद्दव्योपादानकं । इति वंशीधरोक्तानुमानमपि
प्रतिक्षिप्तं । अभिमानकार्यद्रव्यत्वस्योपादानद्रव्येऽभिमानवृत्तिसाधनाशक्त-
त्वात् । कारणगुणात्मकत्वात्कार्यस्येति प्रक्रियानुसारे च महदादावप्य-
भिमानाङ्गीकारप्रसङ्गात् । अतीन्द्रियेऽर्थेऽभिमान कार्यद्रव्यत्वादिहेतोरनु-
मानेन साधनासम्भवाच्छ्रुत्य लम्बेतु तस्यैव शरणत्वेनानुमानाप्रसराच्च