This page has not been fully proofread.

सरः ]
 
त्रिगुणपरीक्षायां प्रकृत्यनुमाननिरासः
 
117
 
सर्वार्थसिद्धिः
 
संकुचन्ती कर्मोत्पन्नैरेव द्वारैः यथाकर्मप्रसरतीति तु त्रय्यन्त-
वृद्धाः । नापि सङ्कल्पादिभिर्मनः कृतिः । संस्कारप्रणाळ्यापि
तदुपपत्तेः। अन्यथामनसापि तदुत्पादनायोगात् । ' * करणस्य
आनन्ददायिनी
 
इत्युक्तेरित्यर्थः । आलोच्य — मयेदं कर्तव्यमिति योऽयं चितिसन्नि
धनादापन्नचैतन्याया बुद्धेर्निश्चयः सोऽध्यवसायः । स च बुद्धेर्महतोऽ-
साधारणधर्मः ; तस्य बुद्धिकार्यत्वात्तदभेदेन निर्देशः । आलोच्यात्राह-
मधिकृतो मदर्थाएवामी विषयाः अहमस्मीति योऽयमभिमानः साहङ्कारस्य-
वृत्तिः चक्षुरादिना संमुग्धाकारेण वस्तुग्रहणे इदमित्थमिति । विशेषण-
विशेष्यभावेन ग्रहणं मनसेति तादृशसम्यक्क (ल्प्यं) ल्प्यः सविकल्पा-
ध्यवसायो मनोवृत्तिरिति तदर्थः । कर्मोत्पन्नेरिति । तथा च कर्मो-
त्पन्नचक्षुरादिभिरन्यथासिद्ध्यार्थ ? कादाचित्कप्रसरबलान्न महदादिसि-
द्धिरिति भावः । संस्कारप्रणाड्येति । संस्कारसहितादात्मन एव वा
चक्षुरादितोऽपि वा तदुपपत्तेरित्यर्थः । यद्वा-संस्कारादेवेत्यर्थः । संस्कारस्या-
वश्यकतामाह–अन्यथेति। ननु संस्कारस्य न सङ्कल्पादिकरणत्वं गुणत्वादि-
त्यत्राह--करणस्य चेति । प्रत्यक्षं प्रतीन्द्रियार्थसन्निकर्षादेरिवानुमि (तौ)त्यादौ
 
भावप्रकाशः
 
1 * करणस्य चेत्यादि । एतेन तन्मात्रेन्द्रियाणि अभिमान-
कार्यद्रव्यत्वादभिमानवृत्तिमद्रव्योपादानकानि । अहङ्कारद्रव्यं निश्चय-