This page has not been fully proofread.

सरः]
 
त्रिगुणपरीक्षायां प्रकृत्यनुमाननिरासः
 
115
 
3
 
सर्वार्थसिद्धिः
 
ननु चिच्छक्तेरेव स्वतो विषयप्रवणतायां अनिर्मोक्षप्रसङ्गा-
दस्ति किंचिद्दारं तत्तु न चक्षुरादिमात्रं, तदुपरमेपि
सङ्कल्पाद्युत्पत्तेः । नापिमनोमात्र विश्रमः,
 
स्व
 
तत्प्रशान्तावपि
मनुष्यस्य स्वात्मनि व्याघ्राद्यभिमानात् । नाप्य-
हंकारे पर्यवसानं तद्विरामे सुषुप्तौ प्रश्वास निश्वासहेतुभूत-
प्रयत्नाधारस्य महतस्सिद्धेः । न च तदवधिस्तत्वपङ्किः ।
तस्यापि परिमितत्वेन कार्यत्वात् । तत्कारणं त्वव्यक्तं न
 
आनन्ददायिनी
 
तया बुद्धि ( रस्तीत्या) सिद्धिरित्याशङ्कते —— नन्वि (ति)त्यादिना — विपक्षे
भाधकतर्कमाह—अनिर्मोक्षेति । विषयोपराग विरत्य ( त्यागा ) भावा-
द्वैराग्याद्यसिद्धेरिति भावः । परिशेषाद्बुद्धिसिद्धिरित्याह – तन्न चक्षुरा-
दिमात्रमिति । तत्प्रशान्तावपीति – सांख्यैः स्वप्ने इन्द्रियमात्रेोपरम-
स्याविशेषेण साधना (अभिधाना) दिति भावः । तथाच अहङ्कार-
जन्यस्वाप्नानुभवः । नाप्यहंकार इति । सुषुप्तावहमनुभवाभावेनाह-
 
भावप्रकाशः
 
साधयति बुद्धिः । सैव च विशिनष्टि पुनः प्रधानपुरुषान्तरं सूक्ष्मम्,
इति कारिका प्रघट्टकस्य महदादि साधनपरत्व व्यञ्जनमुखेन स्वस्य साङ्ख्य-
मतरहस्यज्ञतां प्रकाशयन् अनुमानेन महदादिसिद्धिं शङ्कते '* नन्वि-
त्यादिना ।
 
2
 
* चिच्छक्तेः — चितः ।
 
* स्वतः-
 
8*