This page has not been fully proofread.

114
 
सव्याख्य सर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
 
[जडद्रव्य
 
भावप्रकाशः
 
अहङ्कारद्रव्यं निश्चयवृत्तिमद्दव्योपादानकं निश्चयकार्यद्रव्यत्वात् इत्यादि ;
तत्र प्रकृत्यादेरनुमानागमाभ्यां साधनं ' प्रकृतिपुरुषतत्संयोगा नित्या-
नुमेया' इति स्वोदाहृतं सांख्याचार्यवाक्योक्तकारिकादि विरुद्धमिति
फलितम् । सामान्यतस्तु दृष्टादतीन्द्रियाणां प्रतीतिरनुमानात् । इत्युक्त-
कारिका पूर्वार्धतत्वकौमुद्यां ' उपलक्षणं चैतच्छेषवतः' इति वाक्ये
शेषवतः अवीतस्य व्यतिरेकिणः इत्यर्थ इति स्वेनैव विवरणेन व्यति
रेक्यनुमानस्याप्यविषयातीन्द्रियार्थस्यैव श्रुत्या सिद्धेस्तदुत्तरार्धे स्फुट-
तया व्यतिरेक्यागमाभ्यामहङ्कारमहदादिसाधनासंभवात् । विपक्षे बाधका-
द्यर्थं तत्रापि श्रुतेस्त्वयाऽङ्गीकृततया श्रुत्यालम्बे तु सैव प्रसजति
शरणम् ' इति वक्ष्यमाणदिशा तत्रानुमानप्रवृत्यसम्भवस्य ' शास्त्रयोनि-
त्वादिति ' सूत्रसिद्धत्वात् ।
 
'
 
कौमुद्यापि न संजातो येषां तत्वविनिश्चयः ।
कृतस्तज्ञानसिध्यर्थं साङ्ख्यतत्वविभाकरः ॥
 
इति स्वोक्तचनुरोधेन रचनानुपपत्त्यधिकरणशङ्करभाष्यादिकं दूषयित्वा
बाह्यानां सुखदुःखमोहरूपतां व्यवस्थापयतोऽपि पुरुषबहुत्वादिषु बहुषु
विषयेषु साङ्ख्यविरुद्धमेवार्थं साधयतो वंशीधरस्य 'विप्रतिषेधाच्चासम
ञ्जसम् इति ' व्याससूत्रोक्तं दूषणमसमा (धान) धे यमेवेति चस्फुटम् । २३
' अध्यवसायोबुद्धिः ' २४ अभिमानोऽहङ्कारः ' ३० युगपच्चतुष्टयस्य
तु वृत्तिः क्रमशश्चतस्य निर्दिष्टा ।' करणं त्रयोदशविधम् ' ३५
• सान्तः करणा बुद्धिः सर्वं विषयमवगाहते यस्मात् । तस्मात्रिविधं
करणं द्वारि द्वाराणि शेषाणि ' । ३७ ' सर्वं प्रत्युपभोगं यस्मात्पुरुषस्य
 

 
1 य.