2025-01-21 07:36:10 by ambuda-bot
This page has not been fully proofread.
सरः]
त्रिगुणपरीक्षायां प्रकृत्यनुमाननिरासः
113
सर्वार्थसिद्धिः
जीवाणुत्वनित्यत्वयोस्साधयिष्यमाणत्वात् । महदादीनां स्वरूपं
*' अनुमानसिद्धं वा पक्षीक्रियते * आगमसिद्धं वा ? नाद्यः
तलिङ्गासिद्धेः ।
आनन्ददायिनी
आत्मनि व्यभिचारान्न व्याप्तिरित्यर्थः तल्लिङ्गासिद्धेरिति-- तथा चाद्यानुमान-
स्याश्रयासिद्धिरिति भावः । ननु विष्वक्प्रवणा चिच्छक्तिः किंचिद्वारमपे-
क्ष्यप्रवर्तते स्वतो विष्वक्प्रवणयोग्यत्वे सति कदाचिदेव किंचिद्विषयक-
त्वात् यत्प्रवणयोग्यत्वेसति तेषु किंचिदेव प्रकाशयति तत्तत्र किंचिद्दार-
मपेक्षते यथाघटस्थदीपालोको बहिरर्थप्रकाशकः इति । तथाच यद्दार-
भावप्रकाशः
* 1 अनुमानसिद्धंवेति — तस्मादपि चासिद्धं परोक्षमाप्तागमा-
त्सिद्धम् । (२६) इति कारिकोत्तरार्धावितरणतत्वकौमुद्यां ' यत्र तन्नास्ति
महदाद्यारम्भक्रमे '
इति वाक्येनारम्भक्रमेऽनुमानाप्रवृत्तिप्रतीतावपि
महदादौ तदप्रतीतेरिति भावः । * ' आगमसिद्धं वेति——महदादौ
तदारम्भक्रमे चानुमानाप्रवृत्तिः पूर्ववाक्ये विवक्षितेत्यभ्युपगमेनेदं । अत
एव मूले महदाद्यनुमानाकाराणामनुल्लेख इति भावः । एतेन ' प्रकृते-
र्महान्' इति श्लोकव्याख्यानावसरे यदाह नवीनो वंशीधर : - ' एतेषु पदा-
र्थेषु अष्टौ प्रकृतयष्षोडश विकाराः ' इति गर्भोपनिषत् । पृथिर्वाच पृथिवी-
मात्राच इति प्रश्नोपनिषच्च प्रमाणमनुमानं च इत्युपक्रम्य इन्द्रियान-
मानं तु ' अत्रहि रूपादि ज्ञानं ' इत्यादिना टीकायामुक्तं ; तत्वान्तरेण
तत्वान्तरानुमानमेव प्रकृतत्वादिदानीमुच्यते —— तन्मात्रेन्द्रियाणि अभि-
मानद्रव्योपादानकानि अभिमान कार्यद्रव्यत्वात् यन्नैवं यथा पुरुषादि ।
SARVARTHA.
8