This page has not been fully proofread.

112
 
सव्याख्यसर्वार्थसिद्धिसहिततत्वं मुक्ताकलापे
 
[जडद्रव्य
 
सर्वार्थसिद्धिः
 
तत्र तावत् - यत् परिमितं तत् सकारणकं इत्यत्र न व्याप्तिः ।
 
आनन्ददायिनी
 
न्नत्वात् इति प्रथमो हेत्वर्थः । तदूषयति तत्रेति । तत्र परिच्छिन्नत्वा-
त्सकारण कमित्येवानुमानं न त्वव्यक्तकारणकमिति । 'कारणमस्त्यव्य-
क्तम्' इति तु पक्षधर्मतावल सिद्धा (लभ्या) भिप्रायं । तथा च
 
भावप्रकाश:
 
मदृष्टचरेणाव्यक्तेनेत्यत आह - भेदानामिति' इति । अत्र वंशधिर-
विवरणं 'ननु सुखात्मक कार्येण कारणस्याव्यक्तस्य पूर्वार्यायां साधि-
तत्वात् परिमाणादिना पुनःसाधने पौनरुक्तयापत्तिरित्याशङ्कायां कण-
भक्षादिमतविरोधेन साधितमप्यसाधितमिव भवतीति न्यायेन पुनः प्रस-
ङ्गसङ्गत्या परमतर्निराकरणं विना प्रकृत्यर्थो न सिध्यतीत्युपद्धातसङ्गत्या
बहुसाधनहेतुकामार्यामवतारयति - स्यादेतदिति' इति । यद्यपि तत्व कौ-
मुद्यां कारणकार्यविभागाविभागौ शक्तितः प्रवृतिरिति हेतुत्र्यं परिमाण-
हेतोः प्राक् निरूपितं ; तत्र पाठक्रमत्यागे चेदं निदानं वंशीधरेणोक्तं
अव्यक्तपदार्थस्यातान्द्रियस्य रूपादिविहीनस्य वा कारणत्वादर्शनेन
दृष्टान्तासिद्धिरिति । तथाऽपि वंशीधरणैव ननु पारिभाषिकाव्यक्त-
त्वस्य परमाणुपु महत्तत्त्वाहङ्कारपञ्चतन्मात्रान्यतमेषु वा संभवेन कृतं
ततः परेणाव्यक्तेनेति परिमाणादिति हेतोः चेतनस्य सुखाद्युपादानत्व-
निराकरणार्थं समन्वयादिति हेतोश्च प्रवृत्त्यभिधानेन परिमाणादित्यस्यैव
प्राधान्यं । अत एव माठरवृत्त्यादौ पाठक्रमानुसरणं युज्यते इत्यभिप्रयन्
पाठक्रममनुसृत्यैव दुदूषयिषुः परिमाणादिति परिमितत्वात् अव्यापित्वा
दिति यावत्' इति वाचस्पत्युक्तमर्थं दूषयति-* तत्र तावदित्यादिना ।