This page has not been fully proofread.

सरः]
 
त्रिगुणपरीक्षयां प्रकृत्यनुमाननिरासः
 
111
 
सर्वार्थसिद्धिः
 
येच * भेदानां परिमाणादित्यादिना हेतव उक्ताः ।
आनन्ददायिनी
 
मानवदित्यर्थः । वैदिकहिंसा स्वपीडनजनिका परपीडनात्मकत्वादिति
वा; वैदिकहिंसा स्वविषयसरूपफलप्रदा क्रियात्वात् इति वा प्रयोगो
द्रष्टव्यः । पशुदहनादौ च परस्त्रीगमनादौ च व्यभिचार इति भावः ।
भेदानां परिमाणात् समन्वयात् शक्तितः प्रवृत्तेश्च ।
कारणकार्यविभागादविभागाद्वैश्वरूप्यस्य ॥
 
कारणमस्त्यव्यक्तं
 
.1
 
इति सांख्योक्तानुमानान्तराण्यपि दूषयितुमनुभाषते —— ये चेति ।
भेदानां महदादिकार्याणां कारणमव्यक्तमस्ति कुतः परिमाणात् परिच्छि-
भावप्रकाशः
 
चेत् तर्हि श्रीभाष्याद्युदाहृतश्रुतिसिद्धान्तर्यामित्वादिधर्मान्यथानुपपत्त्या
 
संकोचविकासात्मकावस्थादिसंबन्धस्यैव सङ्गशब्दार्थत्वौचित्येनैतन्मतेऽ..
प्यनुपपत्त्यभावात् । कारणद्रव्येषु
कारणद्रव्येषु रूपाद्यभावेऽपि न्यूनाधिकभा-
वने कारणद्रव्याणामन्योन्यसंयोगस्यैव तन्मात्रारूपादेः कारणतायाः
स्वेनैव स्वीकृततया अत्रापि विलक्षणपरिणामस्यैव महदादिगतसुख-
दुःखमोहप्रयोजकत्वसंभवेन महदादिगतसुखदुःखमोहानां स्वकारणगत-
सुखदुःखमोहान्विनाप्युत्पत्तिसंभवेनाप्रयोजकत्वाच्च ।
 
1
 
* भेदानां परिमाणादित्यादिनेति । आर्यामिमामित्थमवतारया-
मास वाचस्पतिः स्यादेतत् ' व्यक्ताद्वयक्तमुत्पद्यते ' इति कणभक्षा-
क्षचरणतनयाः । परमाणवो हि व्यक्ताः तैर्यणुकादिक्रमेण पृथि-
व्यादिलक्षणं कार्यं व्यक्तमारभ्यते । पृथिव्यादिषु च कारणगुणक्रमेण
रूपाद्युत्पत्तिः । तस्मात व्यक्तात् व्यक्तस्य तद्गुणस्य चोत्पत्तेः कृत-