2025-01-21 07:36:08 by ambuda-bot
This page has not been fully proofread.
110
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
सर्वार्थसिद्धिः
[जडद्रव्य
वृश्चिकादिषु व्यभिचारात् । तदभिप्रायं च सूत्रं '* " दृश्यते तु
इति । नापि पृष्टः ; तस्य त्वद्बुद्विमात्रारूढस्य अदृष्यत्वात् ।
लोकदृष्टस्य तु कस्यचिदुक्तो (दत्तो) तरप्रायत्वात् । अतः
कर्मणां स्वविषयसरूपफलप्रदत्वानुमानवत् कार्याणां स्वगु-
णसरूपगुणकारणकत्वानुमानमपि
अनैकान्त्यदुःस्थमिति ।
आनन्ददायिनी
व्याससूक्तिसम्मतिमाह तदभिप्रायमिति ।
-
।
कार्यकारणयोर्गोमय-
वृश्चिकयोर्वैलक्षण्यं दृश्यत इत्यर्थः । स्वविषयसरूपति———स्वस्थ
हिंसादेर्विषयो वधादिस्तज्जन्यदुःखादिकं वा तत्सरूपफलप्रदानानु-
भावप्रकाशः
"
1 * ' दृश्यते तु इति' इति — अत्र भाष्यं दृश्यते हि माक्षि-
कादेर्विलक्षणस्य कृम्यादेस्तस्मादुत्पत्तिः । ननूक्तमचेतनांश एव
कार्यकारणभावात्तत्र सालक्षण्यं; सत्यमुक्तं ; न तावता कार्यकारणयोर्भव-
दभिमतसालक्षण्यसिद्धिः इत्युपक्रम्य ' नहि घटमकुटादिष्विव वस्त्वन्तर-
व्यावृत्तिहेतुभूतासाधारणाकारानुवृत्तिर्माक्षिकगोमयवृश्चिकादिषु दृश्यते '
इति । एतेन अचेतनत्वेन सुखदुःखमोहात्मकत्वेन गुणवद्दव्यत्वेन वा
सादृश्यं विवक्षितमिति वंशीधरवचनमपि दत्तोत्तरम् । येन केन -
चित्सारूप्यं तु जगद्ब्रह्मणोरपि सत्तादिसाम्यसंभवाद्भाष्य एव न
विवक्षार्हमित्युक्तम् । असङ्गश्रुत्या ब्रह्मणि परिणामाङ्गीकारो न संभव-
तीति वंशीधरोक्तं तु न युक्तं ; तथा सति असङ्गश्रुतिविरोधेन तन्मते
प्रकृतिपुरुषयास्संयोगाङ्गीकारस्यैवासंभवप्रसङ्गात् । कूटस्थस्य सर्वमूर्त-
संयोगित्वरूपविभुत्वानुपपत्तेः । सामान्यगुणातिरिक्तधर्म एव परिणामः
तद्धेतुसंबन्ध एवं सङ्गशब्दार्थ इति वंशीधरोक्तया तन्मते न दोष इति