This page has not been fully proofread.

xvi
 
इति भर्तृहरिणा-
 
मीमांसा काले लोकायतीकृता ।
 
तामास्तिकपथे नेतुम् ॥
 
इति सामान्यतः कुमारिलैः ; विशिष्य च तैरेव -
रागद्वेषमदोन्मादप्रमादालस्यलुब्धताः ।
 
क्क वा नोत्प्रेक्षितुं शक्याः स्मृत्यप्रामाण्यहेतवः ॥
 
इति सर्वत्रानाश्वासमाशङ्कय-
 
अदुष्टेन तु चिंत्तन सुलभा साधुमूलता ।
 
इति तत्परिहारमुक्तवा—
 
का वा धर्मक्रिया यस्यां दृष्टो हेतुर्न युज्यते ।
लोकायतिकमूर्खाणां नैवान्यत्कर्म विद्यते ॥
यावत्किञ्चिददृष्टार्थं तद्दृष्टार्थं हि कुर्वते ! ।
वैदिकान्यपि कर्माणि दृष्टार्थान्येव ते विदुः ॥
अल्पेनापि निमित्तेन विरोधं योजयन्ति ते ।
तेभ्यश्चेत्प्रसरो नाम दत्तो मीमांसकैः क्वचित् ॥
 
न च कंचन मुञ्चेयुः धर्ममार्गे हि ते तदा ! ।
 
इति सर्वत्रानाश्वासं विप्रतिपत्तिं वेदश्रद्धाया अप्यन्यथासिद्धिं अन्यच्चा-
न्यच्च शुष्कतर्कावलम्बनेन वदन्तो लोकायतिका मूर्खा एवोक्ताः । अत
एव लोकायतस्य वितण्डाशास्त्रत्वव्यवहार उपपद्यते बौद्धानाम् ।
वितण्डसत्थं विज्ज्ञेयं यं तं लोकायतम् ।
 
(अभिधानप्रदीपिका)
 
(वितण्डाशास्त्रं विज्ञेयं यत्तल्लोकायतम् । ( इति छाया)
 
इति । तदेतज्जयन्तभट्टोप्याह-
 
न च लोकायते किञ्चित्कर्तव्यमुपदिश्यते ।
वैतण्डिककथैवासौ न पुनः कश्चिदागमः ॥