2025-01-21 07:36:08 by ambuda-bot
This page has not been fully proofread.
सर
त्रिगुणपरीक्षायां प्रकृत्यनुमाननिरास
109
सर्वार्थसिद्धिः
साध्ये सिद्धसाधनात् । सर्वगुणसजातीयत्वसाधने कार्यकार
णयोरविशेषप्रसङ्गात्, *' मृत्सुवर्णादिवत् कार्यविशेषव्यवस्था-
पककारणस्वभावसाजात्यविवक्षायां
आनन्ददायिनी
गोमयमाक्षिकाद्यारब्ध-
वे(मि)ति विकल्प्याद्ये दोषः काकाक्षिन्यायेनावर्तनीय इति मत्वा द्वितीये
दोषमाह — सर्वगुणेति । यथा मृद उत्पन्नो घटो मृदात्मकः स्वर्णा-
दुत्पन्नः कटकः स्वर्णात्मकः तद्वदित्यर्थः । तृतीये दोषमाह -
कार्यविशेषेति । महदादि कार्य कार्यविशेषधर्मव्यवस्थापककारण-
गुणसजातीयगुणवत् कार्यत्वात् इति साधने वृश्चिकमाक्षिकादौ व्यभि-
चारीति भावः । न विलक्षणत्वादस्य तथात्वं च शब्दात्' इति
भावप्रकाशः
वैलक्षण्यमिति व्यञ्जयन्नाह - ' *मृत्सुवर्णादिवदित्यादिना । यथोक्तं वाच-
स्पतिना ' भिन्नानां समानरूपता समन्वयः । सुखदुःखमोहसमन्विता हि
बुध्यादयोऽध्यवसायलक्षणा: प्रतीयन्ते । यानि यद्रूपसमनुगतानि तानि
तस्त्वभावाव्यक्तकारणकानि ; यथा मृद्धेमपिण्डसमनुगता घटमकुटादयो
मृद्धेमपिण्डाव्यक्तकारणका इति' । अत्रयद्रूपसमनुगतानि --- यत्स्वभा-
वात्मकानीति व्याचख्यौ वंशधरः । अत्र सर्वार्थसिद्धौ कार्याविशेष-
व्यवस्थापकेत्यनेन मृद्धेमपिण्डेत्यादिवाचस्पतिवाक्ये मृत्स्वभावान्वयस्य
घटादिकार्यविशेषनियामकत्वमभिप्रेतमिति व्यञ्जितं । एवं कारणगुणात्मक-
त्वादिति कारिकाविवरणे ' महदादिलक्षणेनापि कार्येण सुखदुःखमोहरू-
पेण स्वकारणगतसुखदुःखमोहात्मना भवितव्यं ' इत्यत्रापीति बोध्यम् ।