2025-01-21 07:36:08 by ambuda-bot
This page has not been fully proofread.
108
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
सर्वार्थसिद्धिः
[जडद्रव्य
कारणसहकारित्वादिसाधनेऽपि न विवक्षितसिद्धिः । न चतुर्थः ;
अवयविवादे तन्तुपटोदाहरणायोगात् । तत्र हि तन्तुगुणैः
पटगुणा जन्याः । द्रव्यनित्यत्ववादे सिद्धसाधनात् । कार्या-
वस्थस्य कारणावस्थानियतगुण साधने विरोधात् । पञ्चमस्तु
विलक्षणमहत्त्वाद्यधिकरणत्वान्निरस्तः । सजातीयगुणसद्भावमात्रे
आनन्ददायिनी
न्तीति भावः । कारण सहकारित्वादीति — कारणं प्रत्यप्रधानत्वं कारण-
सहकारित्वमिति निर्वचनेऽपि (तेन) कारणं किञ्चित्सिद्धयेत् । न तु
सुखदुःखमोहात्मकमित्यर्थः । आदिशब्देन समवायिविनाशजन्यविनाश-
प्रतियोगित्वादिकं विवक्षितं । इदमुपलक्षणं कारणस्य कार्यजनने
सहकारित्वं नाम किं स्वजनने स्वकारणापेक्षया उत ? यत्किञ्चित्कार्य-
जनने तत्कारणापेक्षया नाद्यः; बाधात्, महदादेः प्रकृत्यादि-
सहकारित्वा (सिद्धेः) भावात् । न द्वितीयः ; सिद्धसाधनादित्यपि
द्रष्टव्यम् । अवयविवादे इति — तथा च असिद्धिरिति भावः ।
विरोधादिति – नित्यत्वाव्यक्तत्वादिसाधने कार्यत्वव्यक्तत्वादिना विरोधा-
दित्यर्थः । ननु कार्यस्य स्वगुणा ( णत्वा) वच्छेन कारणावस्थवृत्तित्वं
साध्यं । तथा च सुखदुःखमोहादीनां महदादिधर्माणांत (द्वति कारणे
वृत्त्या) त्कारणवृत्त्या तदात्मकप्रकृतिसिद्धिरिति चेन्न । अहङ्कारादि-
स्वकार (णा) णवृत्तिशब्दादिगुणवत्तयाऽऽकाशादीनां तत्र व्यभिचार
इति भावः । कारणगुणसजातीयैर्गुणवत्त्वमित्यत्र किं तैरेवेत्यवधारणं
विवक्षितं उत नेति विकल्पमभिप्रेत्य आद्ये दोषमाह – विलक्षणेति
द्वितीयं निरस्यति——–स्वसजातीयेति । किं च किं कारणगुणवत्त्वमात्रं
साध्यते यद्वा सर्वगुणसजातयि सर्वगुणवत्त्वं वा उत विशेषगुणसाजात्यं
--