2025-01-21 07:36:08 by ambuda-bot
This page has not been fully proofread.
सरः]
त्रिगुणपरीक्षायां प्रकृत्यनुमाननिरासः
107
सर्वार्थसिद्धिः
पटस्य तन्तुगुणत्वोक्तिरिति चेन्नः अवयविसमवाययोः त्वया-
प्यनभ्युपगमात् । पटत्वस्य न्तुनिष्ठत्वमुपलब्धमिति चेत् ;
किमतः; कार्यावस्थानां कारणद्रव्यवृत्तित्वमात्रसाधनापत्तेः ।
तथा च न कारणावस्थस्य सुखाद्यात्मकत्वासिद्धिः । कार-
णमात्रं तु सिद्धत्वान्न साध्यं । तृतीयेऽपि किमिदं कार्यस्य
कारणं प्रत्यप्रधानत्वं ? तत्कार्यत्वमिति चेन्न ; सिद्धसाधनात् ।
साध्याविशेषाच्च । न हि अकारणेन किञ्चित्कार्यमिच्छामः ।
आनन्ददायिनी
च तत् पटेऽपि तन्तुसमवेतत्वादिति शङ्कते – तन्तुसमवेतत्वादिति ।
ननु तन्निष्ठत्वमेव तद्गुणत्वप्रयोजकमस्तु त ं (तु) च पटावस्थाया
अस्तीति शङ्कते—पटत्वस्येति । किमत इति । महत्त्वाद्यवस्थाः
कारणनिष्ठाः कार्यावस्थात्वात् पटत्वाद्यवस्थावदिति हि तदा प्रयोगो
भवेत् । तथा च कारणगुणसामान्यं सिद्धयेत् न तु त्रिगुणात्मककारण-
विशेष इति भावः । सिद्धसाधनादिति महत्त्वा (हदा ) दिकं कारणा-
यत्तं कार्यत्वादिति हि तदा स्यात् ; तथा च चार्वाकव्यतिरिक्तं प्रति
सिद्धसाधनमेवेति भावः । साध्याविशेषाच्चेति : कारणनियतपश्चा-
द्भावित्वलक्षणकार्यत्वस्य कारणायत्तत्वस्य च पर्यायत्वादिति भावः ।
ननु कारणनियतपश्चाद्भावित्वं न कार्यत्वं अपि तु प्रागभावप्रतियोगि-
त्वादिकं ; तथा न पर्यायत्वं न सिद्धसाधनं चेत्यत्राह — न हीति ।
कार्यमात्रस्य कारणनिरूप्यत्वव्याप्तिग्रहाद्वयाप्तिग्रहसामान्यसिद्ध्यैव सि-
द्धया सिद्धसाधनमिति भावः । यद्वा — कारणं विनाऽपि कार्य
(कार्यं कि) मस्त्वित्यत्राह - न हीति । अकारणं - कारणाभावः ।
सहयोगे तृतीया । न हि कारणाभावस्थले कार्यं चार्वाकादन्येऽङ्गीकुर्व-