This page has not been fully proofread.

सर:]
 
त्रिगुणपरीक्षायां प्रकृत्यनुमाननिरासः
 
103
 
सर्वार्थसिद्धिः
 
यत् कार्यं तत् कारणगुणात्मकं यथा तन्त्वादिगुणा-
त्मकं पटादि; तथा महदादिकार्यजातमपि सुखदुःखमोहा-
त्मकतया स्वकारणगतसुखदुःखाद्यात्मकं भवति अतस्तत्कारणं
सुखदुःखाद्यात्मकं प्रधानमिति । तत्र पटादेः किमिदं कार-
आनन्ददायिनी
 
सुखदुःख मोहात्मकतयेति । इत्थं साङ्ख्यप्रक्रिया —— सर्वं कार्यजातं सुख-
दुःखमोहात्मकं । यथा स्त्री रूपयौवनकुलादि संपन्ना स्वामिनं सुखाकरोति
स्वामिनं प्रति सुखात्मकत्वात् । एवं पुरुषान्तरं मोहयति तं प्रति मोहात्म-
 
भावप्रकाशः
 
;
 
स्वगुणसरूपगुणकारणकत्वानुमानमपि अनैकान्त्यदुस्स्थमिति ; परत्र चा-
चार्यवाक्ये व्यक्तम् । अत एवात्र वंशीधरेण महदादि सुखदुःखमोहद्र-
व्योपादानकं कार्यत्वे सति तद्विशेषगुणवत्त्वात् इत्यनुमानप्रयोगान्निष्क-
र्षितः । मूलस्याप्यत्रैव तात्पर्यमिति माठरवृत्तौ स्पष्टं यथा-' कारणस्य
गुणाः कारणगुणाः ते अत्मा - स्वभावो यस्य तद्भावः कारणगुणात्मकत्वं ।
आत्मशब्दः स्वभावे वर्तते । कारणगुणस्वभावत्वात्कार्यस्य इह लोके
यदात्मकं कारणं तदात्मकमेव कार्यमपि भवतीति । महदादीनां सुख-
दुःखमोहात्मकत्वं — त्रिगुणं ... ११ ॥ प्रीत्यप्रीतिविषादात्मकाः .
गुणाः १२ ॥ इति कारिकायोः व्यक्तं । अत्र वाचस्पतिः - त्रिगुणमिति ।
त्रयो गुणा अस्येति त्रिगुणं । तदनेन सुखादीनामात्मधर्मत्वं परा-
भिमतमपाकृतमित्याह । उत्तरत्र च १३. यत्सुखहेतुः तत्सुखात्मकं
सत्वं यद्दुःखहेतुः तद्दुःखात्मकं रजः यन्मोहहेतुः तन्मोहात्मकं तमः इति
तदेवासाधयत् । अत्र वंशीधरविवरणं - तदनेनेति-' कामस्सङ्कल्पः
 
-
 
--
 
...