This page has not been fully proofread.

102
 
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
 
[ जडद्रव्य
 
तत्वमुक्ताकलापः
 
न पुनरनुमया व्याप्तिलिङ्गाद्यसिद्धेः ।
 
सर्वार्थसिद्धिः
 
'*ननु साङ्ख्योक्तैरनुमानैः प्रधानादिसिद्धिस्स्यादित्यत्राह
न पुनरनुमयेति । न त्वनुमानैरित्यर्थः । तत्र हेतुः — व्याप्ति-
लिङ्गाद्यसिद्धेः । यथासम्भवं व्याप्तिलिङ्गपक्षदृष्टान्तानामसिद्धे-
रित्यर्थः । तथा हि-यत्तावदुक्तं ।
 
कारणगुणात्मकत्वात्कार्यस्याव्यक्तमपि सिद्धमिति ।
 
2 * अयमर्थः-
 
आनन्ददायिनी
 
पन्नं ; अनुमाशब्दस्यानुमितिपरत्वेन तज्जन्यप्रतीत्यभावादित्यत्राह
न पुनरनुमयेति अनुमानैरित्यर्थः इति । अनुमाशब्दः करणपरो
जात्येकवचन इति भावः । आदिशब्दार्थमाह-- पक्षदृष्टान्तेति ।
साङ्ख्योक्तं प्रकृत्यनुमानं दूषयितुमनुभाषते —— यत्तावदुक्तमिति । काकस्य
कायद्धवलः प्रासाद इतिवदसंगतमित्यत्राह — अयमर्थ इति ।
 
भावप्रकाशः
 
--
 
* नन्वित्यादिना । तत्राव्यक्तसाधनार्थप्रवृत्तसाङ्ख्यसप्तति-
कारिकार्थमनुवदति कारणेत्यादिना ।
 
-
 
तत्र साङ्ख्यतत्वकौमुदी-
मनुसृत्य कारिकार्थमाह-- 2 * अयमर्थ इत्यादिना । अत्र 'मह-
दादिकार्येण सुखदुःखमोहरूपेण स्वकारणगतसुखदुःखमोहात्मना
 
भवितव्यमिति' वाचस्पतिवाक्येन कार्यत्वे सति यद्धर्मवत्त्वं यत्र तत्र
कारणगततद्धर्मात्मकत्वमिति व्याप्तिस्सूच्यते । एतच्च अत्र कार्याणां