This page has not been fully proofread.

सरः]
 
त्रिगुणपरीक्षायां प्रकृत्यादेरानुमानिकत्वस्य सामान्यतोनिरासः 101
 
भावप्रकाशः
 
यत्प्रमाणम् यत्र शक्तं तदुक्तलक्षणेभ्यः प्रमाणेभ्यो निष्कृप्य दर्शयति-
सामान्यत इति । तुशब्दः प्रत्यक्षपूर्ववद्भ्यां विशिनष्टि । सामा-
न्यतो दृष्टादध्यवसायादतीन्द्रियाणां प्रधानपुरुषादीनां प्रतीतिः । चिति-
छायापत्तिर्बुद्धेरध्यवसाय इत्यर्थः । उपलक्षणं चैतत् ; शेषवदित्यपि
द्रष्टव्यम् । तत्किं सर्वेष्वतीन्द्रियेषु सामान्यतो दृष्टमेव प्रवर्तते ? तथाच-
यत्र तन्नास्ति महदाद्यारम्भक्रमे स्वर्गापूर्वदेवतादौ च तत्र तेषामभावः
प्राप्त इत्यत आह तस्मादपीति । तस्मादित्येतावतैव सिद्धे चकारेण
शेषवदित्यपि समुच्चितं ' इति । एतद्व्याख्यायां साङ्ख्यतत्वविभाकरनाम्नयां
वंशीधर इत्थमाह-' आदिना संयोगसंग्रहः । प्रकृतिपुरुषतत्संयोगा नित्या-
मेया इत्युक्तेः । जडायाः प्रतीतेर्घटादेखि प्रमेयव्यवहारहेतुत्वाभा -
वादाह - चितीति । चितिच्छाया — चैतन्यप्रतिबिम्बः तस्यापत्तिर्यत्र
चैतन्यप्रातीचम्बाश्रयेत्यर्थः । सा च बुद्धेरन्तःकरणस्याध्यवसायः
वृत्तिरूपपरिणामः । अचेतनोऽपि चेतन इव भवतीत्यर्थः । नन्वती-
न्द्रियादौ व्यतिरेकिणोऽपि सम्भवात् कथं सामान्यतो दृष्टादेव
तत्प्रतीतिरित्यत आह-उपलक्षणमिति । शेषवतः अवीतस्य व्यति-
रेकिण इत्यर्थ: । आगमस्य वैफल्यमाशङ्कते तत्किमिति । तत्रेष्टा-
पत्तिमाशङ्कय निराकरोति तथाचेति । पदार्थक्रमे अनुमानद्वयं न
सम्भवति कार्यलिङ्गेन कारणानुमानात् । तथा च परोक्षे प्रत्यक्षानुमान -
योरविषये श्रुतिरेवमानं । स्वर्गबोधकं ' यन्न दुःखेन इत्यादि ।
स्वर्गकामो यजेतेत्याांदे अपूर्वे । अपूर्वं विना आशुविनाशिनो यागस्य
स्वर्गसाधनत्वासम्भवात्। देवतायां ' अग्नीषोमाविदं हविरजुषेतां ' । ऐन्द्रं
दध्यमावास्यायां' इत्यादि । सामान्यतोदृष्टाद्यथा प्रधानादीनां सिद्धिः
तथा 'प्रकृतेर्महान्' इत्यादौ स्पष्टमभिधास्यते इत्याह । एवं च स्वच्छ-
देनागमनेति मूलमसङ्गतमित्यभिप्रयन् न पुनरनुमयेति मूलमवातरयति--
 
,