This page has not been fully proofread.

100
 
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
 
सर्वार्थसिद्धिः
 
[जडद्रव्य
 
कारेण त्रिगुणस्य शास्त्रवेद्यत्वं । एषां च तत्वानां तदवान्तर-
भेदानां च यथाऽऽगमं यथादर्शनं च लक्षणं ग्राम् । केषु-
चित् क्षीरगुडादिरसभेदवत् दुर्वचा अपि भेदास्त्वनुभवसिद्धा
i * दुरपह्नवाः ।
 
आनन्ददायिनी
 
प्रकृत्यादावतिव्याप्तेश्चेत्यत्राह एषां चेति । अप्रत्यक्षाणामागमबोधितं
लक्षणं । तेषु सर्वतत्वकारणत्वं महत्तत्वकारणत्वं च प्रकृतिलक्षणं । प्रकृत्य -
व्यवधानेन प्रकृतिजन्यत्वं महल्लक्षणं इत्यादिना ग्राह्यम् । पृथिव्या-
दीनां च प्रत्यक्षतः । नचातिव्याप्तिः ; यथादर्शनं यथाऽऽगमं तत्त-
दवस्थाविशिष्टस्य लक्ष्यतया तत्तदवस्थाशून्यकाले लक्षणविरहादति-
व्याप्तयभावादिति भावः । ननु पृथिव्यादीनामनुगतस्य धर्मस्य
दुर्वचत्वात् न लक्षणं संभवतीत्यत आह — केषुचिदिति । भेदाः
भेदकधर्मा इत्यर्थः । ननु प्रत्यक्षेणाप्रतीतेरित्यस्यानुषङ्गेऽनुमयेत्यनुप-
 
भावप्रकाशः
 
* दुरपह्नवा इति । तदाहं दण्डी काव्यादर्शे-
इक्षुक्षीरगुडादीनां माधुर्यस्यान्तरं महत् ।
 
तथाऽपि न तदाख्यातुं सरस्वत्यापि शक्यते ॥
 
इति। साङ्ख्यास्तु यस्यातीन्द्रियस्य साधनेऽनुमानं न प्रभवति तदेवाग-
मतस्सिध्यतीत्याहुः । यथाहेश्वरकृष्णः ---
 
सामान्यतस्तु दृष्टादतीन्द्रियाणां प्रतीतिरनुमानात् ।
 
तस्मादपि चासिद्धं परोक्षमाप्तागमात्सिद्धम् ॥
 
इति । तदेतत्साङ्ख्यतत्वकौमुद्यां इत्थं व्याचकार वाचस्पतिः - ' तत्र