2025-01-21 07:35:19 by ambuda-bot
This page has not been fully proofread.
XV
बार्हस्पत्यस्तु नास्तिकः ॥ ( हेमचन्द्रीयाभिधानचिन्तामणौ )
नास्तिको वेदनिन्दकः ॥ (मनुस्मृतौ )
इत्येवमादिभिः ग्रान्थिकव्यवहारैः लोकायतशब्दः नास्तिकजनवाचितया
प्रवर्तमानो विज्ञायते ॥
योऽवमन्येत ते मूले हेतुशास्त्राश्रयाद्दिजः ।
इति मनुवचनालोचनेन च नास्तिकपरिगृहीतं शास्त्रमपि हेतुशास्त्रमिति
व्यपदेश्यं ज्ञायते । श्रुतिस्मृतिन्यायविरुद्धशास्त्राभिज्ञो हैतुक इति
कुल्लूकभट्ट आह-
नानाशास्त्रेषु मुख्यैश्च शुश्राव स्वनमीरितम् ।
लोकायतिकमुख्यैश्च समन्तादनुनादितम् ॥
( महाभारत १-७-४६)
ऐक्यनामात्मसंयोगसमवायविशारदैः ।
लोकायतिकमुख्यैश्च शुश्रुवुस्स्वनमीरितम् ॥
(हरिवंश २४९ - ३०)
इत्यादिवचनालोचने तार्किकमात्रपरतापि विज्ञायते ॥
कच्चिन्न लोकायतिकान् ब्राह्मणांस्तात सेवसे ! ।
अनर्थकुशला ह्येते बालाः पण्डितमानिनः ॥
धर्मशास्त्रेषु मुख्येषु विद्यमानेषु दुर्बुधाः ।
बुद्धिमान्वीक्षिकीं प्राप्य निरर्थं प्रवदन्ति ते ॥
(श्रीमद्वाल्मीकिरामायणे २ का. १०० सर्गे)
इति श्रीमद्वाल्मीकिवचनालोचनेन शुष्कतार्किकपरताप्यवसीयते ॥
नच ब्राह्मणा वेदविदश्शुष्कतार्किका इति कथमिदं घटत इति
शङ्कनीयम्; यतः -
बैजिसौभवहर्यक्षैः शुष्कतर्कानुसारिभिः ।
आर्षे विप्लाविते ग्रन्थे संग्रह प्रतिकञ्चुके ॥