2025-01-21 07:36:05 by ambuda-bot
This page has not been fully proofread.
सरः ]
त्रिगुणपरीक्षायां प्रकृत्यादेर चाक्षुषत्वम्
99
सर्वार्थसिद्धिः
अध्यवसायादयोऽपि वस्तु अत्मधर्माः । करणभेदायत्ततया
तु तत्तद्वृत्तित्वोपचाराः । दृष्टेषु पृथिव्यादिष्वपि शास्त्रैकवेद्याः
कतिकति न सन्त्याकाराः ? किंपुनरन्येषु ? अतो लोकोत्तीर्णा-
आनन्ददायिनी
1
प्रतीयमानोऽङ्कार इति चेत्तत्राह — अध्यवसायादयोऽपीति । तह-
ध्यवसायादेः तद्धर्मत्वे (शास्त्रेषु धर्मितया) तेषु तद्धर्मतया व्यपदेशः
कथमित्यत्राह — करणभेदेति । करण (रूप) भूत महदाद्यायत्तत्वादि-
त्यर्थः । ननु पृथिव्याद्यवस्थाविशिष्टस्यैव प्रत्यक्षवेद्यत्वात् कथं पृथि-
व्यादेश्शास्त्रवेद्यत्वम्? नच तस्य मास्तु तद्वेद्यत्वमिति वाच्यम् ;
तथा सति चतुर्विंशतितत्वानां शास्त्रवेद्यत्ववचनविरो(धः)धात् इत्य-
त्राह — दृष्टेष्विति । पृथिव्यवस्थाविशिष्टतया प्रत्यक्षत्वेऽपि सलिला -
दिजन्यत्वब्रह्यपरतन्त्रत्व ब्रह्मकारणकत्वब्रह्मशररित्वाद्यैर्धमैर प्रत्यक्षत्वेन शास्त्र
वेद्यत्वमविरुद्धम् ।
द्रव्यक्रियागुणादीनां धर्मत्वं स्थापयिष्यते ।
तेषामैन्द्रियकत्वेऽपि न ताद्रूप्येण धर्मता ।
श्रेयस्साधनताप्येषां नित्यं वेदात्प्रतीयते ॥
इति न्यायादिति भावः । दृष्टानामेव पृथिव्यादीनां शास्त्रगम्यत्वे
अतीन्द्रियप्रकृत्यादीनां शास्त्रगम्यत्वं किं पुनर्न्यायसिद्धमित्याह-किं
पुनरिति । तथाच इदं सुखदुःखमोहात्मकं कार्यजातं तादृशकारण-
जन्यमित्यनुमानान्न सिध्यतीति भावः । ननु प्रकृत्यादीनामप्रत्यक्षत्वे
तल्लक्षणग्रहणमनुपपन्नं; प्रत्यक्षदृष्टानां पृथिव्यादीनां तत्तदवान्तरभे-
दानां च लक्षणमप्यनुपपन्नं; कार्यकारणयोरभेदेन पृथिव्यादिलक्षण-
7*